Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 35
________________ शत्रुञ्जयतीर्थकल्पः। रत्नवाहे शौर्यपुरे कुण्डग्रामेऽप्यपापया । चन्द्रानना-सिंहपुरे तथा राजगृहे पुरे ॥ ५३ ॥ श्रीरैवतक-संमेत-वैभारा-ऽष्टापदाद्रिषु । यात्रयास्मिंस्तेषु यात्राफलाच्छतगुणं फलम् !! ५४ ॥-चतुर्भिः कलापकम् । पूजापुण्याच्छतगुणं पुण्यं बिम्बविधापने । चैत्येऽत्र सहस्रगुणं पालनेऽनन्तसगुणम् ॥ ५५ ॥ यः कारयेदस्य मौलौ प्रतिमां चैत्यवेश्म वा । भुक्त्वा भारतवर्षीः स वर्गश्रियमश्नुते ॥ ५६ ॥ नमस्कारसहितादितपांसि विदधन्नरः । उत्तरोत्तरतपसां पुण्डरीकस्मृतेर्लभेत् ॥ ५७ ॥ तीर्थमेतत्मरन्मर्त्यः करणत्रयशुद्धिमान् । षष्ठादिमासिकान्तानां तपसां फलमामुयात् ।। ५८ ।। अद्यापि पुण्डरीकाद्री कृत्वानशनमुत्तमम् । भूत्वा शीलविहीनोऽपि सुखेन स्वर्गमृच्छति ।। ५९ ।। छत्रचामरभृङ्गारध्वजस्थालप्रदानतः । विद्याधरो जायतेऽत्र चक्री स्याद्रथदानतः ॥ ६०॥ दशात्र पुष्पदामानि ददानो भावशुद्धितः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ ६१ ॥ द्विगुणानि तु षष्ठस्याष्टमस्य त्रिगुणानि तु । चतुर्गुणानि दशमस्येति तानि ददत् पुनः ॥ ६२ ।। फलं भवेद्वादशस्य ददत् पञ्चगुणानि तु । तेषां यथोत्तरं वृद्ध्या फलवृद्धिरपि स्मृता ।। ६३ ।। पूजालपनमात्रेण यत् पुण्यं विमलाचले । नान्यतीर्थेषु तत् वर्णभूमिभूषणदानतः ॥ ६४ ॥ धूपोत्क्षेपणतः पक्षोपवासस्य लभेत् फलम् । कर्पूरपूजया चात्र मासक्षपणजं फलम् ॥ ६५॥ निर्दोषैरत्र भक्ताद्यैर्यः साधून प्रतिलाभयेत् । फलेन कार्तिकमासक्षपणस्य स युज्यते ॥ ६६ ॥ त्रिसन्ध्यं मन्त्रवाःसातो मासानाश्वान् मधूर्जयोः । नमोऽर्हन्यः पदं ध्यायन्निहार्जेत् तीर्थकृत्पदम् ॥ ६७ ।। पादलिप्तपुरे भातः प्रासादौ पार्श्व-वीरयोः । अधोभागे चास्य नेमिनाथस्यायतनं महत् ॥ ६८ ॥ तिस्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः । मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् ॥ ६९ ।। दृष्टैव तीर्थप्रथमप्रवेशेऽत्रा दिमार्हतः । विशदा मूर्तिराधत्ते दृशोरमृतपारणम् ।। ७० ॥ अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह । बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् ॥ ७१ ।। भाखरद्युतिमम्माणमणिशैलतटोत्थितम् । ज्योतीरसाख्यं यद्नं तत्तेन घटितं किल ॥ ७२ ।। मधुमत्यां पुरि श्रेष्ठी वास्तव्यो जावडिः पुरा । श्रीशत्रुञ्जयमाहात्म्यं श्रीवैरखामितोऽशृणोत् ।। ७३ ॥ गन्धोदकमात्ररुचिलेंप्यबिम्ब शुशोच सः । स्मृत्वा चक्रेश्वरी सैष मम्माणाद्रिखनीमगात् ।। ७४ ।। निर्माप्येहाश्मनी मूर्ति स्थमारोप्य चाचलत् । विमलादि सभार्योऽसौ पद्यया हृद्यया दिने ॥ ७५ ॥ ययौ यावन्तमध्वानं दिवा सप्रतिमो रथः । रात्रौ तावन्तमेवासौ पश्चाद् च्यावर्तताद्भुतम् ॥ ७६ ॥ खिन्नः कपर्दिनं स्मृत्वा दृष्ट्वा हेतुं च तद्विधौ । रथमार्गेऽपतत्तिर्यक् प्रयतः सह जायया ॥ ७७ ।। तत्साहसप्रसन्नेन दैवतेनाधिरोपितः । स्थः सबिम्बोऽद्रिशृङ्गे दुःसाधं सात्त्विकेषु किम् ॥ ७८ ।। मूलनायकमुत्थाप्य न्यस्ते बिम्बे तदाम्पदे । लेप्यबिम्बारटितेन पर्वतः खण्डशोऽदलत् ।। ७९ ।। तन्मुक्ताऽथ तडिच्छेष्ठिबिम्बेन करमर्दिता । सोपानानि च्छिद्रयन्ती निर्ययौ शैलदेशभित् ।। ८०॥ आरुह्य चैत्यशिखरं सकलत्रः प्रमोदतः । जावडिनेरिनर्ति स्म चञ्चद्रोमाञ्चकञ्चुकः ॥ ८१ ॥ अपतीर्थिकबोहित्थान्यब्देऽष्टादश आपतन् । तद्र्व्यव्ययतः श्रेष्ठी तन्त्र चके प्रभावनाम् ॥ ८२ ॥ इत्थं जावडिराद्याहत्-पुण्डरीक-कपर्दिनाम् । मूर्तीनिवेश्य सञ्जज्ञे खर्विमानातिथित्वभाक् ।। ८३ ॥ 20 25 30 1 B°वालातो। 2 A स प्रथमो; B दिवसे प्रथमे। 3A स भावनां ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160