Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे ५३. आमरकुण्डपद्मावतीदेवीकल्पः । आमरकुण्डकनगरे तिलङ्गजनपदविभूषणे रुचिरे ।
गिरिशिखरभुवनमध्यस्थिता जयति पद्मिनीदेवी ॥ १॥ अस्ति 'स्वस्तिकरसमस्तगुणगणनीरन्धेषु अन्धेष्वामरकुण्डं नाम नगरम_लिहरम्यहHश्रेणिविश्राणितनयनान5न्द सिग्धनानाविधच्छायातरुपरिष्कृतं मञ्जुगुञ्जन्मधुकरनिकरपरिकरितकुसुमसौरभसंरम्भ सुरभीकृतदिग्वलयं विमलबहलसलिलकलिलसरित्सरोवरशोभितं दुर्गमदुर्गतया विपक्षपक्षैरक्षोभितम् । किं वा तस्य पुरवरस्य वर्णयामः?-यत्र करवीरसुमनसोऽपि मृगमदगन्धयः । विशिष्टेक्षुयष्टि-विपुलकदलीफल-चङ्गनारङ्ग-नैकपकारसहकार-सरसपनस-पुन्नाग-नागवल्ली-पूग-खादुच्च(त्य)शालिनालिकेरफलप्रभृतीनि हृद्यखाद्यानि; फलन्ति प्रतिऋतु सौरभ्यभर निर्भरवासितदिक्पालयः शालयः, वीक्ष्यन्ते परीक्षकैर्विपणिषु पट्टांशुकप्रमुखासिचयनिचयमौक्तिकरलादीन्यगण्यानि पण्यानि । इत एव निष्पन्नमुरंगलव्यपदेशपेश10 लमेकशिलापत्तनम् । तत्समीपभूमिमलंकरिप्णुविष्णुपदचुम्बिशिखरपरम्पराशेखरितः सर्वतो रमणीयः पर्वतः पातयितुमीश्वरः सौन्दर्यगर्वतः पर्वतराजमास्ते । तदुपरि परिणाहारोहशालिश्रीऋषभ-शान्तिनाथादिजिनप्रतिमालङ्कताः कृतजनमनःप्रसादाः प्रासादाः शोभन्ते शुभंयवः । तत्रैकत्र पवित्रतरे पारगतसद्मनि छद्मनिर्मुक्तमना मनागपि न विषयसुखैः क्षुभितहृदयः सहृदयहृदयाह्लादिदयोदयः प्रतिवसति स्म जितस्मरो विस्मयकारिचरणचर्यावशीकृतपद्मावती
देवीलब्धप्रतिष्ठो मेघचन्द्रनामा दिगम्बरः "तिपतिरेकोऽनेकान्तिषत्परिषदन्वासितपदः । स चैकदा श्रावकगोष्ठी15 मनुज्ञाप्य प्रतस्थे स्थानान्तरविहरणाय । यावत्कियतीमपि भुवमगमत्, खहस्ताभरणं नाद्राक्षीत् पुस्तकम् । ततश्चाहो
नः प्रमद्वरता येन खपुस्तकमपि व्यसामेति क्षणं विषद्य सद्यश्छात्रमेकं क्षत्रियजातीयं माधवराजनामधेयं व्यावर्तयत् पुस्तकानयनाय । स च छात्रो वलित्वा मठमशठमतिर्यावस्प्रविशति तावदपश्यदेकयाऽद्भुतरूपधेयश्रिया स्त्रिया तं पुस्तकमूरूपरि न्यस्तम् । यावन्निर्भीकमक्षुब्धचेतास्तदूरोर्ग्रहीतुं प्रवृत्तस्तं तावत्सा वरवर्णिनी तत्पुस्तकं स्वस्कन्धदेशस्थमदी
दृशत् । तदनु स छात्रो मात्रोत्तीर्णवैया त्यात्तदूरौ चरणं दत्वा स्कन्धादपि तद्गहीतुं प्रावृतत् । ततस्तया राज्याहोंऽय20मिति विमृश्य विधृतः करे, अभिहितश्च-वत्स ! किमपि वृणु, तनुभ्यमहं प्रयच्छामि । तुष्टाऽसि तव साहसिक्येन । तदनन्तरं शिष्येण निजगदे जगदेकवन्धो मद्गुरुः सर्वं मह्यमभिरुचितमर्थं प्रदातुं समर्थ एवास्ति । तत्किमहं शुभवति ! भवती प्रार्थये इत्यभिधाय छात्रः पुस्तकमादाय च स्वाचार्यसविधमागच्छत् । तदखिलमपि स्वरूपं निवेद्य पुस्तकनाचार्याय समार्पिपत् । क्षपणकगणाधिपतिरवोचद्-भद्र ! सा न स्वीमात्रं, किन्तु भगवती पद्मावती देवता सा । तद्गच्छ, लिखितहृद्यपद्यमिदं पत्रं तस्यै दर्शयेति । गुर्वादेशं तथेति प्रतिपद्य सद्य एव विनेयो व्याघुट्य तं मठं गत्वा तस्यै तत्पत्रं समर्प्य पुरस्तस्थौ । देव्यप्यवाचयत् ; यथा---
अष्टौ दन्तिसहस्राणि नव कोट्यः पदातयः । रथाश्वा लक्षसंख्याश्च कोशश्चास्मै प्रदीयताम् ॥ १ ॥
भगवत्यपि पद्यार्थमवधार्य तस्मादन्तेवासिने चतुरगस्तुरगः प्रददे। जगदे चासौ-यदेनमधिरुह्य व्रजतु भवान । यत्पत्र लिखितमास्ते तत्सर्व त्वत्पृष्ठत एव समेष्यति । केवलं गिरिवराऽध्वना स्वया गन्तव्यम, पृष्ठतश्च नावलो. क्यम् इति तद्वचनं तथेत्युरीकृत्य कृत्यवित्तगिरिविवरमनुप्रावीविशदश्वम् । यावद् द्वादश योजनान्यबाजीद्वाजी । ततः पश्चा४० दागच्छदतुच्छकरिघटाघण्टाटणत्कारतुमुलमतुलमुभाकणि समाकर्ण्य कुतूहलोत्तालतया स छात्रः सपदि पश्चाद्भाग सिंहावलोकितन्यायेन निभालयांबभूव | यावदवैक्षिष्ट करितुरगादिसमूहसङ्कलां सेनाम् । तसिंश्च विस्मयरसमयहृदयीभूते तत्रैव द्वादशयोजनान्ते स तदधिष्ठितस्तुरङ्गमयुङ्गयोऽवास्थित ! तदनु च स माधवराजः परमजैनस्तया पृतनया परिवृतस्तन्नैव नगरं निवेश्य तत्र देव्या भवनं च विधाप्य पुनरानमत्कुण्ड( आमरकुण्ड ?) नगरमागत्य राज्यलक्ष्मी
ICखस्ति समस्त । 2 C नयानन्दं। 3 'संरंभ' नास्ति B। 4 B 'प्रासादाः' नास्ति। 5 'न' नास्ति Pur * नास्ति वाक्य मिदम् । 6 Pa व्रतपति। 7 'च' नास्ति Pal 8C वैयावृत्त्यात्त।

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160