Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 131
________________ चतुर्विंशतिजिनकल्याणककल्पः । + ९९ 'पर्ण्यपालयद्भूपालमौलिलालितशासनः । प्रासादं चाभ्रंकषशिखरं हिरण्मयदण्डकलशध्वजभ्राजिष्णुमचीकरत् । प्रत्यतिष्ठिपच्च नत्र चित्रीयमाणनमस्कुर्वाणमनुष्यचेतसं श्रीपद्मावतीं देवीम् । पर्यपूपुजच्च पर्याप्तभक्तितरङ्गितमनास्त्रिषवणमष्टविधपूजया । विद्यते च तदद्यापि भुवनोदरव्यापिमाहात्म्यं भगवत्या मन्दिरममन्दलक्ष्मीकं भव्यजनतया पर्युपास्यमानम् । तस्य च गिरिविवरस्य द्वारि विपुल शिलापट्टमद्यापि दत्तमस्ति, यथा तेन पथा सर्वोऽपि न प्रविशति । तत्र हि शिलामुद्घाट्य महतीं पूजां कृत्वा प्रविश्य प्रथमं लुठता गन्तव्यं कियतीमपि कलाम्, तदग्रे चोपविष्टैश्चलनीयम्, अग्रेतरां च महत्य - 5 काशे ऊर्ध्वर्जुभिरेव यावदेवीसदनं किल गन्तव्यमिति । प्रत्यूहव्यूहसंभावनया कष्टभयाच्च न कश्चित्प्रायस्तद्विवरद्वारमुद्घाटयितुं पाटवमसाहसिकः कलयतीति शिलापिहितद्वारि विवरस्थान एव सर्वेऽपि श्रद्धालवः पद्मावत्याः पूर्जा कुर्वते; प्राप्नुवन्ति च विष्वद्रीचीरभिरुचितार्थसिद्धीः । माधवराजस्य कंकतिग्रामवास्तव्यत्वात्तद्वंशजाः पुरंटिरित्तमराज- पिण्डिकुण्डिमराज - प्रोल्लराज- 'रुद्रदेव- गणपतिदेवाः । गणपतिदेव पुत्री च रुद्रमहादेवी पञ्चत्रिंशद्वर्ष कृतराज्यस्ततः श्रीप्रतापरुद्रः । एते काकतीया इति प्रसिद्धाः ॥ 10 श्रीमदाराम (०दामर ?) कुण्डाख्यपद्मावत्या यथाश्रुतम् । अजल्पि कल्पलेशोऽयं श्रीजिनप्रभसूरिभिः ॥ १ ॥ ॥ इति श्रीआमरकुण्ड' पद्मावतीदेवीकल्पः ॥ ॥ प्र० ५९, अ० २२ ॥ ५४. चतुर्विंशति जिनकल्याणककल्पः । इअ तीअवट्टमाणाणागयचउवी सजिणवरिंदाणं । उसप्पिणिऑस्सप्पिणिभवाण अणुलोम-पडिलोमा ॥ १ ॥ 'सम्गाइअमहियलया पंचसु भरहेसु एरवयपणगे । कल्लाणयमासतिहीओं सासया नय विदेहेसु ॥ २ ॥ इगभत्तिनिविअआयामखमणमिगदु त्ति पंचकल्लाणे | इअ संखेवतवेणं आराहह पंचकला ॥ ३ ॥ वित्थरओं अ चउत्थं चुइ-जंमेसुं करिज्ज पत्तेअं । जिणचिण्णेणं तवसा दिक्खाइतिगं तु आराहे || ४ || सुमइत्थ निच्चभत्तेण निग्गओं वासुपूज्न चउत्थेणं । पासो मल्ली वि अ अट्टमेण सेसाओं छद्वेणं ॥ ५ ॥ अट्टममत्तंतंमी नाणमुसभ-मल्लिनेमिपासाणं | वसुपुज्जरस चउत्थेण छट्टभत्तेण सेसाणं ॥ ६ ॥ चउदसमेणं उस भो वीरो छट्टेण मासिए भत्ते । सिद्धा वयंमि सुमइस्क्वासो निच्चभते वि ॥ ७ ॥ काउं कल्लाणतवं उज्जमणं जो करिज्ज विहिपुत्रं । जिण पहआराहणओं परमपयं पावए सकमा ॥ ८ ॥ चुइ-जम्म- दिक्ख-केवल-सिवाई कलाणयाई पंचेव । सबजिणाणं छ पुणो वीरस्स सगब्भहरणाई ॥ ९ ॥ इह वित्तभवजिणाणं जो आराहेइ पंचकल्लाणं । ते दसखित्त-तिकालिअ अरिहाण उवासिआ तेण ॥ १० ॥ पणकल्लाणयकप्पं भवीण पूरिअमणिट्टकप्पं । जो पढइ सुणइ भवो सयंवरा तस्स सिद्धिसिरी ॥ ११ ॥ ॥ ग्रं० १३, अ० १५ ॥ ५५. तीर्थकरातिशयविचारः । प्रथमं चत्वारः सहजातिशयाः, ततो घातिकर्मक्षयादेकादशातिशयाः । एकोनविंशतिः सुरकृतातिशयाः । एवं ३४ । तत्रापि-अवायावगभातिसओ नाणाइसओ वयणाइसओ पूआइसओ ति । ॥ अं० २, अ० ७ ॥ 1 Pa परिपालयद् । 2 Pa गिरिवरस्य । 5 C रुद्रगणपति° । 6 Pb आरम; C आराम 3 B पिण्डकुण्डिनगज; Pa कुण्डि इतिमराज | 4 Pa प्रोसराज 7 Pa सगाइअवयहि" । 15 20 25 20

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160