Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
1
शान्तिकमचीकरत् । स च देवः प्रतिनिशं नरकांस्तस्था अदर्शयत् । राजा तु सर्वांस्तीर्थिकानाहूय पप्रच्छ—कीदृशा नरकाः स्युरिति । कैश्चिद्गर्भवासः, कैश्चन गुप्तिवासः, कैरपि दारिद्र्यम्, अपरैः पारतंत्र्यमिति तैर्नरका ' आचचक्षिरे । राज्ञी तु' मुखं मोटयित्वा तान् विसंवादिवचसो व्यस्राक्षीत् । अथ नृपोऽन्निकापुत्राचार्यमाकार्य तदेवाप्राक्षीत् । तेन तु यादृशान् देव्यदर्शयत्तादृशा एवोक्ता नरकाः । राज्ञी प्रोचे - भगवन् ! भवद्भिरपि किं स्वमो दृष्टः ? । कथमन्यथेत्थं 5 वित्थ ? | सूरिरवदद्-भद्वै ! जिनागमात्सर्वमवगम्यते । पुष्पचूलाऽवोचत्-भगवन् ! केन कर्मणा ते प्राप्यन्ते । गुरुरगृणाद्-भद्रे ! महारम्भपरिग्रहैर्गुरुप्रत्यनीकतया पञ्चेन्द्रियवधान्मांसाहाराच्च तेष्वङ्गिनः पतन्ति । क्रमेण स सुरस्तस्यै स्वर्गानदर्शयत् स्वमे । राज्ञा तथैव पाखण्डिनः पृष्टास्तानपि व्यभिचारिवाचो विसृज्य भूपस्तमेवाचार्थं स्वर्गस्वरूपमप्राक्षीत् । तेनापि यथावत्तत्रोदिते स्वर्गाप्तिकारणमपृच्छद्राज्ञी । ततः सम्यक्त्वमूलौ गृहि यतिधर्मावादिशन्मुनीशः । प्रतिबुद्धा च सा लघुकर्मा । नृपमनुज्ञापयति स्म प्रव्रज्यायै । सोऽप्यूचे - यदि मगृह एव 'भिक्षामादत्से तदा प्रव्रज । तयोरीकृते नृप10 वचसि सा सोत्सवमभूत्तस्याचार्यस्य शिष्या गीतार्थी च । अन्यदा भाविदुर्भिक्षं श्रुतोपयोगात् ज्ञात्वा सूरिर्गच्छं देशान्तरे ग्रैषीत् । स्वयं तु परिक्षीणजङ्घाबरुस्तत्रैवास्थात्; भक्तपानं च पुष्पचूलाऽन्तः पुरादानीय गुरवेऽदात् । क्रमात्तस्या गुरुशुश्रूषाभावनाप्रकर्षात् क्षपकश्रेण्यारोहात्केवलज्ञानमुत्पेदे । तथापि गुरुवैयावृत्यान्न निवृत्ता । यावद्धि गुरुणा न ज्ञातं यदयं केवलीति तावत् पूर्वप्रयुक्तं विनयं केवल्यपि नात्येति । सापि यद्यद्गुरोरुचितं रुचितं च तत्तदन्नादि सम्पादितक्ती । अन्यदा वर्षत्यब्दे सा पिण्डमाहरद् । गुरुभिरभिहितम् - वत्से । श्रुतज्ञाऽसि, किमिति वृष्टौ त्वयाऽऽनीतः पिण्डः 15 इति । साऽभाणीद्-भगवन् ! यत्राध्वनि अष्कायोऽचित एवासीत्तेनैवाया सिपमहम् ; कुतः प्रायश्चित्तापतिः । गुरुराहछद्मस्थः कथमेतद्वेद ? । तयोचे केवलं ममास्ति । ततो मिथ्या मे दुष्कृतम् केवल्याशातित इति ब्रुवन्नपृच्छत्तां गच्छाधिपः–किमहं सेत्स्यामि न वेति ? ! केवल्यूचे मा कृढमधृतिम् ; गङ्गामुत्तरतां वो भविष्यति केवलम् । ततो गङ्गामुतरीतुं लोकैः सह नावमारोहत्सूरिः । यत्र यत्र स न्यषीदत्तत्र तत्र नौर्मंक्तुमारेभे । तदनु मध्यदेशासीने मुनीने सर्वापि नौर्मक्तुं लग्ना । ततो लोकैः सूरिर्जले क्षितः । दुर्भगीकरण विराद्धया प्राग्भवपत्न्या व्यन्तरीभूतयाऽन्तर्जलं शूले निहितः । 20 शूलप्रोतोऽप्ययम 'प्कायजीवविराधनामेवा' शोचयन्नाऽऽत्मपीडाम् । क्षपकश्रेण्यारूढोऽन्तकृत्केवलीभूय सिद्धः । आसन्नैः सुरैस्तस्य निर्वाणमहिमा चक्रे । अत एव तत्तीर्थं प्रयाग इति जगति पप्रथे । प्रकृष्टो यागः पूजा अत्रेति प्रयाग इत्यन्वर्थः । शूलाप्रोतत्वगतानुगतिकतया चाद्यापि परसमयिनः क्रकचं स्वाने दापयन्ति तत्र । वटश्च तत्र गणशस्तुरुष्कै• छिन्नोऽपि मुहुर्मुहुः प्ररोहति ।
६८
सूरेः करोटियादो मित्रोट्यमानाऽपि जलोर्मिभिर्नदीतीरं नीता । इतस्ततो लुलन्ती च शुक्तिवन्नदीतटे क्वापि गुप्त25 विषमे प्रदेशे विलग्य तस्थौ । तस्य च करोटिकर्परस्यान्तः कदाचित्पाटलावीजं न्यपतत् । क्रमात् करोटिकर्परं भित्त्वा दक्षिणहनोः पाटलातरुरुद्वतो विशालश्चायमजनि । तदत्र पाटलिद्रोः प्रभावाच्चाप' निमित्ताच्च नगरं निवेश्यताम्, आशिबाशब्दं च सूत्रं दीयताम् । ततो राज्ञाऽऽदिष्टा नैमित्तिकाः पाटलां पूर्वतः कृत्वा पश्चिमाम्, तत उत्तराम्, ततः पुनः पूर्वाम्, ततो दक्षिणां शिवाशब्दाऽवधि गत्वा " सूत्रमपातयन् । एवं चतुरखः पुरस्य सन्निवेशो बभूव । तत्राङ्किते प्रदेशे पुरमचीकरन्नृपः । तच्च पाटला" नाना पाटलिपुत्रं पत्तनमासीत् । असमकुसुमबहुलतया च कुसुमपुरमित्यपि 30 रूढम् । तन्मध्ये श्रीनेमिचेत्यं राज्ञाऽकारि । तत्र पुरे गजाश्वरथशालाप्रासादसौधप्राकार गोपुरपण्यशाला सत्राकारपौषधागाररम्ये चिरं राज्यं जैनधर्मं चापालयमुदायिनरेन्द्रः ।
तस्मिन्नुपात्तपौषधेऽन्यदोदायिमारकेण स्वर्गातिथ्यं प्रापिते नापितगणिकासुतो नन्दः श्रीवीर मोक्षारष्टिवत्सर्यामतीतायां क्षितिपतिरजनि । तदन्वये सप्त नन्दा नृपा जाताः । नवमनन्दे राजनि परमार्हतकल्पकान्वयी शकटालो
|
4 B दिक्षा
1 P प्रतिदिशं । 2 B नारकाः 1 3P नास्ति 'तु' ● विराधनाशो" । 8 ' इत्यन्वर्थः ' नास्ति ABD आदर्श 1 P 'पाटली' ।
9 P चाप ।
5P ज्ञानं । 6B sप्यप्काय । 7 B 10 A B C नास्ति 'सूत्र' 11 A 'पाडली';

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160