Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
कुडुंगेश्वरनाभेयदेवकल्पः। खयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमन्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १॥
इत्यादि प्रथम एवं श्लोके प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गाद्भूमवर्तिरुदस्थात् । ततो जनैर्वचनमिदमूचे--अष्टविद्येशाधीशः कालामिरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु भस्मसात्करिष्यति । ततस्तडित्तेज इव सतडत्कारं प्रथमं ज्योतिर्निर्गत्याप्रतिचक्राताड्यमानमिथ्यादृष्टिदैवतमामूलाल्लिङ्गं द्विधा भित्वा प्रादुरास पद्मासनासीनः स्वयंभूर्भगवानाभिसूनुः । तदनया दर्शनप्रभावनया तीर्णः पाराञ्चिताम्भोनिधिरिति विमुच्य रक्ताम्बराणि, प्रकटीकृत्य मुखवत्रिका-5 रजोहरणादिलिङ्गानि, महाराजं धर्मलाभाक्षरैराशीर्वादयांचक्रे वादीन्द्रः । ततो विनयपुरस्सरम्
सूरये सिद्धसेनाय दूरादुच्छ्रितपाणये । धर्मलाभ इति प्रोक्ते ददौ कोटिं नराधिपः ॥ १॥ ततः प्रभून् क्षमयित्वा नृपतिः स्तुतिमकार्षीत् । यथा
उद्यूढपाराञ्चितसिद्धसेनदिवाकराचार्यकृतप्रतिष्ठः ।
श्रीमान् कुडुंगेश्वरनाभिसूनुर्देवः शिवायास्तु जिनेश्वरो वः ॥ १॥ 10 ततो भगवतो भट्टश्रीदिवाकरसूरैर्देशनया संजीविनीचारिचरकन्यायेन खाभाविकभद्रकतया विशेषतः सम्यक्त्वमूलां देशविरतिं प्रत्यपादि श्रीविक्रमादित्यः । ततश्च गोहदमण्डले च सांबद्रा' प्रभृतिग्रामाणामेकनवति, चित्रकूटमण्डले वसाडप्रभृतिप्रामाणां चितुरशीति, तथा धुटारसीप्रभृतिप्रामाणां चतुर्विशतिं, मोहडचासकमण्डले ईसरोडाप्रभृतिप्रामाणां षट्पञ्चाशतं श्रीकुटुंगेश्वरऋषभदेवाय शासनेन खनिःश्रेयसार्थमदात् । ततः शासनपट्टिका 'श्रीमदुज्जयिन्यां, संवत् १, चैत्रसुदि १, गुरौ, “भाटदेशीयमहाक्षपटलिकपरमार्हतश्वेताम्बरोपासकब्राह्मण-15 गौतमसुतकात्यायनेन राजाऽलेखयत् ।' ततः श्रीकुडुंगेश्वरऋषभदेवप्रकटीभवनदिनात् प्रभृति सर्वात्मना मिथ्यात्वोच्छेदेन सर्वानपि जटाधरादीन् दर्शनिनः श्वेताम्बरान् कारयित्वा परिमुक्तमिथ्याष्टिदेवगुरुः सकलामप्यवनी जैनमुद्राकितां चकार । ततः परितुष्टैः श्रीसिद्धसेनसूरिरभिदधे वसुधाधवः ।। पुण्णे वाससहस्से सयंमि अहिअंमि नवनवइकलिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥१॥ इत्थं ख्यातिं सर्वजगत्पूज्यतां चोपगतः श्रीकुडुंगेश्वरयुगादिदेव इति । कुडुंगेश्वरदेवस्य कल्पमेतं यथाश्रुतम् । रुचिरं रचयां चक्रुः श्रीजिनप्रभसूरयः ॥ १ ॥
॥ इति कुडुंगेश्वरयुगादिदेवकल्पः ॥
॥ ग्रं० ५५, अ० १८ ॥
20
__1C नास्ति 'एव'12 BP संजीवनी । 3 B साबद्रा; P सावदा। 1 एतदन्तर्गता पंक्तिः नास्ति P आदर्श । 4Cघंटारसी। 5 BC भाद।
वि.क. १२

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160