Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
कालान्तरे कश्चिन्नैगमः सभार्यः सर्वर्धा तद्यात्रायै प्रस्थितः । प्राप्तः क्रमेण रन्तिनदीम् । नावमारूढौ च दम्पती चैत्यशिखरं व्यलोकयताम् । ततः सरभसं सौवर्णकच्चो के कुङ्कुमचन्दनकर्पूरं प्रक्षिप्य जले क्षेतुमारब्धवती नैगमगृहिणी । प्रमादान्निपतितं तदन्तर्जलतलम् । ततो भणितं वणिजा - अहो ! इदं कच्चोलकं नैककोटिमूल्यरत्नखचितं राज्ञा ग्रहणकेऽर्पितमासीत् । ततो राज्ञः कथं छुटितव्यमिति चिरं विषद्य वङ्कचूलस्य पल्लीपतेर्विज्ञापितं तत् । 5 यथाऽस्य राजकीयवस्तुनो विचितिः कार्यताम् । तेनापि धीवर आदिष्टस्तच्छोधयितुं प्राविशदन्तर्नदम् । विचिन्वता चान्तर्जलतलं दृष्टं तेन हिरण्मयरथस्थं जीवन्तस्वामिश्रीपार्श्वनाथ विम्बम् । यावत्पश्यति स्म स विम्वस्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम्- धन्याविमौ दम्पती यद्भगवतो वक्षसि घुसृणचन्दनविलेपनाहे स्थितमिदम् । ततो गृहीत्वा तदर्पितं नैगमस्य । तेनापि दत्तं तस्मै बहुद्रव्यम् । उक्तं च त्रिम्बखरूपं नाविकेन । ततो वङ्कचूलेन श्रद्धाना तमेव प्रवेश्य निष्काशितं तद्विम्वम् । कनकरथस्तु तत्रैव मुक्तः । निवेदितं हि खप्ने प्राग् भगवता नृपतेः, यत्र 10 क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति तत्र विम्बं शोध्यमिति । तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वङ्कचूलाय । तेनापि स्थापितं श्रीवीरस्य बिम्बस्य बहिर्मण्डपे यावत्किल नव्यं चैत्यमस्मै कारयामीत्यभिसन्धिमता | कारिते च चैत्यान्तरे यावत्तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरुषास्तावत्तद्विम्बं नोत्तिष्ठति स्म । देवताधिष्ठानात्तत्रैव स्थितमद्यापि तथैवास्ते । धीवरेण पुनर्विज्ञप्तः पल्लीपतिः - यत्तत्र देव ! मया नद्यां प्रविष्टेन विम्बान्तरमपि दृष्टम्, तदपि बहिरानेतुमौचितीमश्चति । पूजारूढं हि भवति । ततः पल्लीश्वरेण पृष्टा स्वपरिषत् - भो । जानीते कोऽप्यनयोर्विम्बयोः 15 संविधानकम् ? । केन खल्वेते नधान्तरजलतले' 'न्यस्ते ? । इत्याकयैकेन पुराविदा स्थविरेण विज्ञप्तम् - देवैकस्मिन्नगरे पूर्वं नृपतिरासीत् । स च परचक्रेण समुपेयुषा सार्द्धं योद्धुं सकलचमूसमूहसन्नहनेन गतः । तस्याग्रमहिषी च निजं सर्वस्वमेतच्च बिम्बद्वयं कनकरथस्थं विधाय जलदुर्गमिति कृत्वा चर्मणवत्यां कोटिंबके प्रक्षिप्य स्थिता' । चिरं युद्धवतस्तस्य कोऽपि खलः किल वार्तामानैषीत् - यदयं नृपतिस्तेन परचक्राचिपतिनृपतिना व्यापादित इति । तच्छ्रुत्वा देवी तत्कोटिंबकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । स्वयं च परासुतामासदत् । स च नृपतिः परचक्रं निर्जित्य यावन्निजनगरमा20 गमत् साबद् देव्याः प्राचीनं वृत्तमाकर्ण्य भवाद्विरक्तः पारमेश्वरीं दीक्षां कक्षीचक्रे । तत्रैकं बिम्बं देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि चेन्निःसरति तदोपक्रम्यतामिति । तदाकर्ण्य वङ्कचूलः परमार्हत' चूडामणिस्तमेव धीवरं तदानयनाथ नद्यां प्रावीविशत् । स च तद्विम्बं कटी दभवपुर्जलतलेऽवतिष्ठमानं वहिस्थशेषाङ्गं चावलोक्य निष्काशनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत्तत्स्वरूपम् | अद्यापि तत्किल तथैवास्ते । श्रूयतेऽद्यापि केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य " हिरण्मयरथस्य 25 कीलिका लब्धा । तां कनकमयीं दृष्ट्वा लुब्धेन तेन व्यचिन्ति-यदिमं रथं क्रमात्सर्वं गृहीत्वा ऋद्धिमान् भविष्यामीति । ततश्च स रात्रौ निद्रां न लेभे । उक्तब्ध केनाप्यदृष्टपुरुषेण-यदिमां तत्रैव विमुच्य सुखं" स्थेयाः, नो चेत्सद्य एव त्वां हनिष्यामीति । तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते दैवताधिष्ठितेषु पदार्थेषु ।
८२
श्रूयते च, सम्प्रति काले कश्चिन्म्लेच्छः पाषाणपाणिः श्रीपार्श्वनाथ प्रतिमां भङ्कुमुपस्थितः स्तम्भितचाहुतः । महति पूजाविधौ कृते सज्जतामापन्न इति । श्रीवीरबिम्बं महत्तदपेक्षया लवीयस्तरं श्री पार्श्वनाथ विम्बमिति महावीर30 स्यार्भकरूपोऽयं देय इति मेदाचेलण इत्याख्यां प्राचीकशन् । श्रीमच्चेल्लणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटमन्नाम्नायः समा[ रा ]धितः प्रकाशितश्च भव्येभ्यः । सा च सिंहगुहापल्ली कालक्रमाहिं पुरीत्याख्यया प्रसिद्धा नगरी संजाता । अद्यापि स भगवान् श्रीमहावीरः स चेल्लणपार्श्वनाथः सकलसंधेन तस्यामेव पुर्यां यात्रोत्सवैराराध्येते इति ।
1 Pb C जलं | 2 Pa-b भवगता । 3 B नान्यं । 4 B नाखि 'च' । 5 Pa °जलं । 6 B न्यास्ते । 7 Pa स्थितारासीत् । 8 B 'तत्' नास्ति । 9 B Pa पर माईतः चूलामणि । 10 B हि रथस्य । 11 Pa नारित 'सुख' ।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160