Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 117
________________ 15 चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पः । ४५. चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पः । पर्युपास्य परमेष्ठिपञ्चकं कीर्तयामि कृतपापनिग्रहम् । तन्त्रवेदि विदितं चतुर्युताशीतितीर्थजिननामसंग्रहम् ॥ १ ॥ तथा हि-श्रीशत्रुञ्जये भुवनदीपः श्रीवैरस्वामिप्रतिष्ठितः श्रीआदिनाथः । तथा, श्रीमूलनायकः पाण्डवस्थापितो नन्दिवर्धनयुगादिनाथः । श्रीशान्तिप्रतिष्ठितः पुण्डरीकः श्रीकलशः, द्वितीयस्तु' श्रीवैर-5 स्वामिप्रतिष्ठितः पूर्णकलशः । सुधाकुण्डजीवितस्वामी श्रीशान्तिनाथः । मरुदेवास्वामिनी प्रथमसिद्धः । श्रीउज्जयन्ते पुण्यकलश-मदनमूर्तिः श्रीनेमिनाथः । काञ्चनपलानके अमृतनिधिः श्रीअरिष्टनेमिः । पापामठे अतीतचतुर्विंशतिमध्यात् अष्टौ पुण्यनिधयः श्रीनेमीश्वरादयः । १. काशहदें त्रिभुवनमङ्गलकलशः श्रीआदिनाथः ! पारकरदेशे श्रीआदिनाथः । अयोध्यायां श्रीऋषभदेवः । कोल्लापुरे वज्रमृत्तिकामयः श्रीभरतेश्वरपूजितो भुवनतिलकः श्रीआदिनाथः । सोपारके जीवन्त खा- 10 मिश्रीऋषभदेवप्रतिमा। नगरमहास्थाने श्रीभरतेश्वरकारितः श्रीयुगादिदेवः । दक्षिणापथे गोमटदेवः श्रीवाहुबलिः । उत्तरापथे कलिङ्गदेशे गोमटः श्रीऋषभः । खङ्गारगढे श्रीउग्रसेनपूजितो मेदिनीमुकुटः श्रीआदिनाथः । महानगर्या उद्दण्डविहारे श्रीआदिनाथः । पुरिमताले श्रीआदिनाथः । तक्षशिलायां बाहुबलिविनिर्मितं धर्मचक्रम् । मोक्षतीर्थे श्रीआदिनाथपादुका । 'कोल्लपाकपत्तने माणिक्यदेवः श्रीऋषभो मन्दोदरीदेवतावसरः । गङ्गा-यमुनयोर्वेणीसंगमे श्रीआदिकरमण्डलम् । २. श्रीअयोध्यायां श्रीअजितखामी । चंदेयाँ अजितः । तारणे विश्वकोटिशिलायां श्रीअजितः । अंगदिकायां श्रीअजित-शांतिदेवताद्वयं श्रीब्रह्मेन्द्रदेवतावसरः । ३. श्रावस्त्यां श्रीसंभवदेवो जाङ्गुलीविद्याधिपतिः । ४. सेगमतीग्रामे श्रीअभिनन्दनदेवः । नर्मदा तत्पादेभ्यो निर्गता । ५. क्रौंचद्वीपे सिंहलद्वीपे हंसद्वीपे श्रीसुमतिनाथदेवपादुकाः । 'आम्बुरिणिग्रामे श्रीसुमतिदेवः । 20 ६. माहेन्द्रपर्वते कौशाम्ब्यां च श्रीपद्मप्रभः ।। ७. मथुरायां महालक्ष्मीनिर्मितः श्रीसुपार्श्वस्तृपः । श्रीदशपुरनगरे श्रीसुपार्श्वः सीतादेवी देवतावसरः । ८. प्रभासे शशिभूषणः श्रीचन्द्रप्रभश्चन्द्रकान्त मणिमयः श्रीज्यालामालिनीदेवतावसरः । श्रीगौतमखामिप्रतिष्ठितो वलभ्यागतः श्रीनन्दिवर्धनकारितः श्रीचन्द्रप्रभः । नासिक्यपुरे श्रीजीवितस्वामी त्रिभुवनतिलकः श्रीचन्द्रप्रभः । चन्द्रावत्यां मन्दिरमुकुटः श्रीचन्द्रप्रभः । वाराणस्यां विश्वेश्वरमध्ये श्रीचन्द्रप्रभः । ९. कायाद्वारे श्रीसुविधिनाथः । १०. प्रयागतीर्थे श्रीशीतलनाथः । ११. विन्ध्याद्रौ मलयगिरौ च श्रीश्रेयांसः । १२. चम्पायां विश्वतिलकः श्रीवासुपूज्यः । १३. काम्पील्ये गङ्गामूले, श्रीसिंहपुरे च श्रीविमलनाथः । 30 १४. मथुरायां यमुनाहूदे, समुद्रे द्वारवत्यां, शाकपाणिमध्ये श्रीअनन्तः । - 1B वेद1 2 Pa पूर्णकलशः। 3 B °स्थापित। 4 Pa द्वितीयो। Pa काशद्रहे। 6 Pa, जीवत । 7 Pa-b कोलपाक'; B कोलापाक। 8 Pa सग। 9 Pa आथुरणि° 1 10 Pa. °स्तूभः। 11 Pa सीतादेवता । 12 BPb कान्ति। 25

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160