________________
शत्रुञ्जयतीर्थकल्पः। रत्नवाहे शौर्यपुरे कुण्डग्रामेऽप्यपापया । चन्द्रानना-सिंहपुरे तथा राजगृहे पुरे ॥ ५३ ॥ श्रीरैवतक-संमेत-वैभारा-ऽष्टापदाद्रिषु ।
यात्रयास्मिंस्तेषु यात्राफलाच्छतगुणं फलम् !! ५४ ॥-चतुर्भिः कलापकम् । पूजापुण्याच्छतगुणं पुण्यं बिम्बविधापने । चैत्येऽत्र सहस्रगुणं पालनेऽनन्तसगुणम् ॥ ५५ ॥ यः कारयेदस्य मौलौ प्रतिमां चैत्यवेश्म वा । भुक्त्वा भारतवर्षीः स वर्गश्रियमश्नुते ॥ ५६ ॥ नमस्कारसहितादितपांसि विदधन्नरः । उत्तरोत्तरतपसां पुण्डरीकस्मृतेर्लभेत् ॥ ५७ ॥ तीर्थमेतत्मरन्मर्त्यः करणत्रयशुद्धिमान् । षष्ठादिमासिकान्तानां तपसां फलमामुयात् ।। ५८ ।। अद्यापि पुण्डरीकाद्री कृत्वानशनमुत्तमम् । भूत्वा शीलविहीनोऽपि सुखेन स्वर्गमृच्छति ।। ५९ ।। छत्रचामरभृङ्गारध्वजस्थालप्रदानतः । विद्याधरो जायतेऽत्र चक्री स्याद्रथदानतः ॥ ६०॥ दशात्र पुष्पदामानि ददानो भावशुद्धितः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ ६१ ॥ द्विगुणानि तु षष्ठस्याष्टमस्य त्रिगुणानि तु । चतुर्गुणानि दशमस्येति तानि ददत् पुनः ॥ ६२ ।। फलं भवेद्वादशस्य ददत् पञ्चगुणानि तु । तेषां यथोत्तरं वृद्ध्या फलवृद्धिरपि स्मृता ।। ६३ ।। पूजालपनमात्रेण यत् पुण्यं विमलाचले । नान्यतीर्थेषु तत् वर्णभूमिभूषणदानतः ॥ ६४ ॥ धूपोत्क्षेपणतः पक्षोपवासस्य लभेत् फलम् । कर्पूरपूजया चात्र मासक्षपणजं फलम् ॥ ६५॥ निर्दोषैरत्र भक्ताद्यैर्यः साधून प्रतिलाभयेत् । फलेन कार्तिकमासक्षपणस्य स युज्यते ॥ ६६ ॥ त्रिसन्ध्यं मन्त्रवाःसातो मासानाश्वान् मधूर्जयोः । नमोऽर्हन्यः पदं ध्यायन्निहार्जेत् तीर्थकृत्पदम् ॥ ६७ ।। पादलिप्तपुरे भातः प्रासादौ पार्श्व-वीरयोः । अधोभागे चास्य नेमिनाथस्यायतनं महत् ॥ ६८ ॥ तिस्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः । मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् ॥ ६९ ।। दृष्टैव तीर्थप्रथमप्रवेशेऽत्रा दिमार्हतः । विशदा मूर्तिराधत्ते दृशोरमृतपारणम् ।। ७० ॥
अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह । बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् ॥ ७१ ।। भाखरद्युतिमम्माणमणिशैलतटोत्थितम् । ज्योतीरसाख्यं यद्नं तत्तेन घटितं किल ॥ ७२ ।। मधुमत्यां पुरि श्रेष्ठी वास्तव्यो जावडिः पुरा । श्रीशत्रुञ्जयमाहात्म्यं श्रीवैरखामितोऽशृणोत् ।। ७३ ॥ गन्धोदकमात्ररुचिलेंप्यबिम्ब शुशोच सः । स्मृत्वा चक्रेश्वरी सैष मम्माणाद्रिखनीमगात् ।। ७४ ।। निर्माप्येहाश्मनी मूर्ति स्थमारोप्य चाचलत् । विमलादि सभार्योऽसौ पद्यया हृद्यया दिने ॥ ७५ ॥ ययौ यावन्तमध्वानं दिवा सप्रतिमो रथः । रात्रौ तावन्तमेवासौ पश्चाद् च्यावर्तताद्भुतम् ॥ ७६ ॥ खिन्नः कपर्दिनं स्मृत्वा दृष्ट्वा हेतुं च तद्विधौ । रथमार्गेऽपतत्तिर्यक् प्रयतः सह जायया ॥ ७७ ।। तत्साहसप्रसन्नेन दैवतेनाधिरोपितः । स्थः सबिम्बोऽद्रिशृङ्गे दुःसाधं सात्त्विकेषु किम् ॥ ७८ ।। मूलनायकमुत्थाप्य न्यस्ते बिम्बे तदाम्पदे । लेप्यबिम्बारटितेन पर्वतः खण्डशोऽदलत् ।। ७९ ।। तन्मुक्ताऽथ तडिच्छेष्ठिबिम्बेन करमर्दिता । सोपानानि च्छिद्रयन्ती निर्ययौ शैलदेशभित् ।। ८०॥ आरुह्य चैत्यशिखरं सकलत्रः प्रमोदतः । जावडिनेरिनर्ति स्म चञ्चद्रोमाञ्चकञ्चुकः ॥ ८१ ॥ अपतीर्थिकबोहित्थान्यब्देऽष्टादश आपतन् । तद्र्व्यव्ययतः श्रेष्ठी तन्त्र चके प्रभावनाम् ॥ ८२ ॥ इत्थं जावडिराद्याहत्-पुण्डरीक-कपर्दिनाम् । मूर्तीनिवेश्य सञ्जज्ञे खर्विमानातिथित्वभाक् ।। ८३ ॥
20
25
30
1 B°वालातो। 2 A स प्रथमो; B दिवसे प्रथमे। 3A स भावनां ।