Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
प्रतिष्ठानपुराधिपति सातवाहननृपचरित्रम् ।
३४. प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् |
अथ प्रसङ्गतः परसमयलोकप्रसिद्धं सातवाहन चरित्रशेषमपि किञ्चिदुच्यते
श्रीसातवाहने क्षितिं रक्षति पञ्चाशद्वीराः प्रतिष्ठाननगरान्तस्तदा वसन्ति स्म । पञ्चाशच नगराद्वहिः । इतश्च तत्रैव पुरे एकस्य द्विजस्य सूनुर्दर्पोद्धुरः शूद्रकाख्यः समजनि । स च युद्धश्रमं दर्पात्कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धो नास्थात्' । अन्येयुः सातवाहननृपतिर्वापला-खूंदला दि-पुरान्तर्वर्ति-वीरपञ्चाशदन्वितो द्विप-5 ञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शुद्धकेण । केनापि वीरेणाङ्गुलचतुष्टयम्, केनचित्षडङ्गुलान्यष्टौ [वा ] शिला भूमित उत्पादिता । महीजानिना त्वाजानु नीता । इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत् - भो भो ! भवत्सु मध्ये किं शिलामिमामा मस्तकं न कश्चिदुद्धर्तुमीष्टे ! । तेऽपि सेर्ण्यमवादिषुर्यथा-त्ववोत्पाटय, यदि समर्थमन्योऽसि । शूद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयांचकार यथा सा दूरमूर्ध्वमगमत् । पुनरवादि शूद्रकेण-यो भवत्स्वलं भूष्णुः स खल्विमां निपतन्तीं स्तनातु । सातवाहना दिवीरैर्मयोद्धान्तलोचनैरूचे 10 स एव सानुनयम्, यथा-भो महाबल ! रक्ष रक्षास्माकीनान् प्राणानिति । स पुनस्तां पतयालुं तथा मुष्टिप्रहारेण प्रहतवान् यथा सा त्रिखण्डतामन्वभूत् । तत्रैकं शकलं योजन त्रयोपरि न्यपतत् । द्वैतीयीकं च खण्डं नागद्ददे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव वीक्ष्यमाणमास्ते जनैः । तद्बलविलसित' चमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य ' दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत्। [स] च शुद्रको बहिश्चरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान्, अनर्थनिवारणार्थम् । अन्यदा स्वसौधस्योपरितले शयानः 15 सातवाहनः क्षितिपतिर्मध्यरात्रे शरीरचिन्तार्थमुत्थितः पुराद्बहिः परिसरे करुणं रुदितमाकर्ण्य, तत्प्रवृत्तिमुपलब्धुं कृपाणपाणिः परदुःखदुःखितहृदयतया गृहान्निरगमत् । अन्तराले शूद्र केणावलोक्य सप्रश्रयं प्रणतः, पृष्टश्व महानिशायां निर्गमनकारणम् । धरणीपतिरवदद् - यदयं बहिः पुरः परिसरं करुणक्रन्दितध्वनिः श्रवणाध्वनि पथिकीभावमनुभवन्नस्ति, तत्कारणप्रवृतिं ज्ञातुं व्रजन्नस्मीति राज्ञोते; शूद्रको व्यजिज्ञपत्-देव ! प्रतीक्षपादैः खसौधालङ्करणाय पादोऽवधार्यतामहमेव तत्प्रवृत्तिमानेष्यामीत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुराद्वहिर्गन्तुं 20 प्रवृत्तः । पुरस्ताद्व्रजन् दत्तकर्णो गोदावर्याः श्रोतसि कञ्चन रुदन्तमश्रौषीत् । ततः परिकरबन्धं विधाय शुद्रकः तीर्त्वा यावत्सरितो मध्यं प्रयाति तावत्पयःपूरप्लाव्यमानं नरमेकं रुदन्तं वीक्ष्य बभाषे - भोः ! कस्त्वं किमर्थं च रोदिषीत्यभिहितः स नितरामरुदत् । अतिनिर्बन्धेन पुनः पृष्टः स्पष्टमाचष्ट - भोः साहसिकशिरोमणे ! मामितो निष्काश्य भूपतेः समीपं प्रापय, येन तत्र खवृत्तमाचक्षे - इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट, तावन्नोत्पटति स्म सः । ततोऽधस्तात् केनापि यादसा मा विधृतोऽयं भवेदित्याशय, सद्यः कृपाणिकामधो वाहयामास शूद्रकः । तदनु शिरोमात्रमेव 25 शूद्रकस्योद्धर्तुः करतलमारोहलघुतया तच्छिरः प्रक्षरद्रुधिरधारमवलोक्य शुद्रको विषादमापेदानश्चिन्तयति स्म - धिग् मामप्रहर्तरि प्रहर्तारम्, शरणागतघातुकं चेत्यात्मानं निन्दन् वज्राहत इव क्षणं मूच्छितस्तस्थौ । तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-कथमिवैतत् खदुश्चेष्टितमवनिपतये निवेदयिष्यामीति लज्जितमनास्तत्रैव काष्ठैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृते तावत्चेन मस्तकेन निजगदे - भो महापुरुष 1 किमर्थमित्थं व्यवसीयते भवता ? । यावदहं शिरोमात्रमेवास्मि सैंहिकेयवत्सदा । तद्दृथा मा विषीद प्रसीद मां राज्ञः समीप- 30 मुपनय इति तद्वचनं निशम्य चमत्कृतचित्तः, प्राणित्ययमिति प्रहृष्टः शूद्रकस्वच्छिरः पटांशुकवेष्टितं विधाय प्रातः सातवाहनमुपानमत् । अपृच्छदथ पृथिवीनाथ:-शूद्रक ! किमिदम् ? । सोऽप्यवोचत्-देव ! सोऽयं यस्य क्रन्दित - ध्वनिर्देवेन रात्रौ शुश्रुवे । इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् । पुना राजा तमेव मस्तकमप्राक्षीद् भोः ! 4 C विलसितेन | 5 Pa नास्ति पदद्वयमेतत् । 6 B तत्क्षणं ।
1 Pa नास्थानात् । 2 B रखलातु ।
3 B
६१

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160