Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
६३
प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् । सकलदैवतगणाः, खां खां भुक्तिमभिमुखेन जगृहे । तावत्तद्धोमधूमः प्रस्मरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् । तेनापि परिज्ञाततलक्ष्म्यादिष्टशूद्रकहोमस्वरूपेण प्रेषितः खभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः खसेनया समम् । दृष्टश्च दैवतगणैश्चकितं च तैः । ततो भषणौ दिव्यशच्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ दैत्यैः । तत शुद्रकः स्वयं योद्धं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहुन्निधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य' चिच्छिदुः । पुनमदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि च्छिन्ने दक्षिणां-5 हिणोपात्तदण्डो योद्धं लमः । तत्रापि दैत्यैर्लने वामपदात्त्यष्टिरयुध्यत तमपि क्रमादच्छिदन्नसुराः । ततो दन्तैर्दण्डमादाय युयुधे । ततस्तैर्मस्तकमच्छेदि । अथाकण्ठतृप्ता देवगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्य-अहो! अस्मद्भुक्तिदातुर्वराकस्यास्य किं जातमिति परितप्य योद्धं प्रवृत्ताः कोल्लासुरममारयन् । ततः श्रीदेव्या अमृतेनाभिषिच्य पुनरनुसंहिताजश्चके शूद्रकः, प्रत्युज्जीवितश्च । सारमेयावपि पुनर्जीवितौ । देवी च प्रसन्ना सती तस्मै खड्गरनं प्रददौं । अनेन खमजय्यो भविष्यसीति च वरं व्यतरत् । ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्ध्यर्थं समग्रमपि 10 भुवनं परिभ्राम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैक वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारुरोह । यावत्पश्यति तच्छाखायां लम्बमानमधःशिरसं काष्ठकीलिकाप्रवेशितोर्ध्वपादं पुरुषमेकम् । स च प्रसारितजिहोऽन्तर्जलं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शूद्रकेण--कस्त्वम् ?, किमर्थं चेत्थं लम्बितोऽसि ? । तेनोक्तम्-अहं मायासुरस्य कनिष्ठो भ्राता स च मदनोन्मदिष्णुर्मदप्रजः । प्रतिष्ठानाधिपतेः सातवाहनस्य महिषीं रिरंसुरपाहरत्सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनु मया प्रोक्तोऽग्रजन्मा-न युज्यते परदारा-15 पहरणं तव ।
विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राय नरकं दशकन्धरः ॥ १ ॥ . इत्यादि वाग्निषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां रङ्कित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितरसनः समुद्रान्तः सञ्चरन्तो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि । इति श्रुत्वा शूद्रकोऽप्यभाणीत्-अहं तस्यैव महीभृतो भृत्यः शूद्रकनामा । तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोक्तम्-एवं चेचर्हि मां मोचयत, यथाहं सह भूत्वा 20 तं दर्शयामि, तां च देवीम् । तेन स्वस्थानं परितो जातुषं दुर्ग कारितमस्ति । तच्च निरन्तरं प्रज्वलदेवास्ति ततस्तदुल्लंध्य, मध्ये प्रविश्य, तं निपात्य, देवी प्रत्याहर्तव्या-इत्याकर्ण्य शद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्वा तं पुरोधाय, दैवतगणपरिवृतः प्रस्थाय, प्राकारमुल्लंघ्य, तत्स्थानान्तः प्राविशत् । देवतगणांश्वावलोक्य मायासुरः खसैन्यं युद्धाय प्रजिघाय । तस्मिन्पञ्चतामश्चिते स्वयं योद्धमुपतस्थे । ततः क्रमेण शुद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य देवी देवतगणैः सत्रा प्रस्थितः प्रतिष्ठानं प्रति ।
25 ___इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान्-अहो ! न मम महादेवी, न च शूद्रकवीरो, नापि च तौ रसनालिहौ । सर्वं मयैव कुबुद्धिना विनाशितमिति शोचयन् सपरिच्छद एव प्राणत्यागं चिकीर्षुः पुराबहिश्चिताभरचयञ्चन्दनादिदारुभिः । यावत्क्षणादाशुशुक्षणिं क्षेप्स्यति परिजनश्चितौ तावद्वर्द्धापक एको देवगणमध्यात्समायासीधजिज्ञपच्च सप्रश्रयम्-देव! दिल्या वर्द्धसे महादेव्यागमनेन । तन्निशम्य श्रवणरम्यं नरेश्वरः स्फरदानन्दकन्दालेतहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शद्रकं च । अयमपि विमानावदतीर्य राज्ञः पदोऽपतत् ; महादेवी च । 30 अभिननन्द सानन्दं मेदिनीन्द्रः शूद्रकम् , राज्याधं च तस्मै प्रादित । सोत्सवमन्तनगरं प्रविश्य श्रुतशुद्रकचारुचरितः समं महिष्या राज्यश्रियमुपबुभुजे महाभुजः ।।
इत्थंकारं नानाविधानान्यवदानानि हालक्षितिपालस्य, कियन्ति नाम व्यावर्णयितुं पार्यते । स्थापिता चानेन गोदावरीसरित्तीरे महालक्ष्मीः । प्रासादे अन्यान्यपि यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं
1 'तस्य' नास्ति Pa1 2 3 ददौ ।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160