Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 96
________________ ६४ विविधतीर्थकल्पे खाने जगतीजानावन्यवा कचिदारुभारहारकः कस्यचिद्वणिजस्य वीथौ प्रत्यहं चारूणि दारूण्याहत्य विक्रीणीते स्म । दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा - किमर्थं भवद्भ्राताऽद्य नागतो मद्वीध्याम् ? । तया वभाणे-श्रेष्ठिश्रेष्ठ ! मत्सौदर्यः स्वर्गिषु सम्प्रति प्रति वसति । वणिगभाणत्कथमिव ? । साऽवदत्- कङ्कणबन्धादारभ्य विवाहप्रकरणे दिनचतुष्टयं नरः स्वर्गिष्विव वसन्तमात्मानं मन्यते । तत्तदुत्सवालोकनकुतूहलात् । तच्चाकर्ण्य राजाप्यचिन्तयत्-अहो ! अहं किं न स्वर्गिषु वसामि चतुर्षु दिनेष्वनवरतं विवाहोत्सवमय एव स्थाप्यामीति विचार्य चातुर्वर्थे यां यां कन्यां युवति वा रूपशालिनीं पश्यति शृणोति स्म वा, तां तां सोत्सवं पर्यणैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम् - अहो ! कथं भाव्यमनपत्यैरेव सर्ववर्णैः स्थेयम् । सर्वकन्यास्तावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति । एवं विषषु लोकेषु विवाहवाटिकानामनि ग्रामे वास्तव्य एको द्विजः पीठजादेवीमारान्य व्यजिज्ञपद्-भगवति ! कथं विवाहकर्मास्मादपत्यानां भावीति ? । देव्योक्तम्- भो वाडव ! वद्भवनेऽहमात्मानं कन्यारूपं कृत्वावतरिष्यामि । यदा मां 10 राजा प्रार्थयते तदाहं तस्मै देयाः शेषमहं भलिष्ये । तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत । सोऽपि जगाद - दत्ता मया, परं महाराज ! तत्रागत्य मत्कन्योद्वोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं मामं श्वसुरकुलं च नृपतिः । देशाचारानुरोधाद्वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतो लग्नवेलायां तिरस्करिणी मपनीय यावदन्योऽन्यस्य शिरसि लाजान् विकिरीतुं प्रवृत्तौ । तदनु किल हस्तलेपो भविष्यतीति तावद्राजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनपाषाणकर्कररूपा राज्ञः शिरसि लगितुं लभाः । क्षितिपति15 रपि किमपि वैकृतमिदमिति विभावयन् पलायितस्तावत्सा पृष्ठलमाऽश्मशकलानि वर्षन्ती प्राप्ता । ततो नरपतिर्नागहृदं प्राविशन्निजजन्मभूमिम् । तत्रैव च निधनमानश इति । अद्यापि सा पीठजादेवी प्रतोल्या बहिरास्ते निजप्रासादस्था । शूद्रकोsपि क्रमेण कालिकादेव्याऽजारूपं विकृत्य वापीं प्रविष्टया करुणरसितेन विप्रलभ्य तन्निष्कासनार्थं प्रविशन् । पतितस्य तस्य कृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानञ्च । महालक्ष्म्या हि वरं वितरणावसरेऽस्मादेव कौक्षेयकात्तव दिष्टान्तावाप्तिर्भवित्रीत्यादिष्टमासीत् । ततः शक्तिकुमारो राज्येऽभिषिक्तः सातवाहनायनिः । तदनन्तरमद्यापि 20 राजा न कश्चित्प्रतिष्ठाने प्रविशति वीरक्षेत्रे इति । अत्र च यदसम्भाव्यं क्वचिदूचे तत्र परसमय एव । मन्तव्यो हेतुर्यन्नासंगतवाग्जनो जैनः ॥ इति श्रीप्रतिष्ठानकल्पः प्रसङ्गतः सातवाहनचरित्रलेशश्च विरचितः श्रीजिनप्रभसूरिभिः । चक्रे प्रतिष्ठान कल्पः श्रीजिनप्रभसूरिभिः । सातवाहनभूपस्य कथालेशश्च प्रसङ्गतः ॥ ॥ ग्रं० १६६, अ० ९॥ 1 B 'प्रति' नास्ति । 2 B नास्ति 'किमपि' ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160