Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥१०१९॥
इय पण्णविओ वि न सो जाहे सद्दहइ पूसमित्तेण । अन्नगणत्थेरेहि य काउं तो संघसमवायं ॥२५४६।। आहृय देवयं बेइ जाणमाणो वि पच्चयनिमित्तं । वच्च जिणिदं पुच्छसु गयाऽऽगया सा परिकहेइ ॥२५४७॥ संघो सम्मावाई गुरूपुरोगो त्ति जिणवरो भणइ । इयरो मिच्छावाई सत्तमओ निह्नवोऽयं ति ॥२५४८॥
एईसं सामत्थं कत्तो गंतुं जिणिदमूलम्मि । बेई कडपूयणाए, संघेण तओ कओ बज्झो ॥२५४९॥ ___ चतसृणामप्यासामक्षरार्थः सुगम एव, भावार्थस्तु कथानकशेषादवसेयः; तच्चेदम्- एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्पमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः । ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आयरक्षितमूरिभिरपि तादृशमेव प्ररूपितम् , न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम्- किं यूयमृषयो जानीथ ?, तीर्थकरैस्तादृशमेव प्ररूपितम् , यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्- मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम् , न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः संघसमवायः कृतः। सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो भद्रिका काचिद् | देवता समागता । सा वदति- संदिशत, किं करोमि । ततः संघः प्रस्तुतमर्थ जानन्नपि सर्वजनप्रत्ययनिमित्तं ब्रवीति- महाविदेहे गत्वा । तीर्थकरमापृच्छस्व,- किं दुर्वलिकापुष्पमित्रप्रमुखः संघो यद् भणति तत् सत्यम् , उत यद् गोष्ठामाहिलो वदति । ततस्तया प्रोक्तम्मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कायोत्सर्ग कुरुत, येनाहं गच्छामि । ततस्तथैव कृतं संघेन । गता च सा । पृष्ट्रा च भगवन्तं प्रत्यागता कथयति यदुत-तीर्थकरः समादिशति,-'दुर्बलिकापुष्पमित्रपुरस्सरः संघः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निद्भवः' इति। तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति-नन्वल्पर्द्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् संघेनोद्वाह्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं
१ इति प्रज्ञापितोऽपि न स यावत् श्रद्धत्ते पुष्पमित्रेण । अन्यगणस्थविरैश्च कृत्वा ततः संघसमवायम् ॥ २५४६ ।।
आहूय देवतां ब्रवीति जाननपि प्रत्ययनिमित्तम् । ब्रज जिनेन्द्र पृच्छ गताऽऽगता सा परिकथयति ॥ २५४७ ॥ संघः सम्यग्वादी गुरुपुरोग इति जिनबरो भणति । इतरो मृषावादी सप्तमको निहवोऽयमिति ॥ २५४८॥ ईशं सामय कुतो गन्तुं जिनेन्द्रमूले । ब्रवीति कडपूतनायाः, संघेन ततः कृतो बाह्यः ॥ २५४९ ॥
Jan Education Intem
For Personal and Price Use Only
Twww.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202