Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 194
________________ विशषो० ॥११९२।। 'सेलेसो किल मेरू सेलेसी होइ जा तदचलया । होउं व असेलेसो सेलेसीहोइ थिरयाए || ३०६५ || अहवा सेलु व्व इसी सेलेसीहोइ सोऽतिथिरयाए । से व अलेसी होइ सेलेसीहोअलोवाओं ॥ ३०६६ || सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होइ तदवस्था ॥ ३०६७ ॥ व्याख्या - शैलेशो मेरुस्तस्यैवाऽचलता स्थिरताऽस्यामवस्थायां सा शैलेशी । अथवा, अशैलेशः शैलेश इव स्थिरतया भवति शैलेशी 'भवति' इत्यध्याहारः । अथवा, प्राकृतसंज्ञामाश्रित्य स्थिरतया 'सेलु व्व इसी महरिसी' तस्य संबन्धिनी स्थिरतावस्थाप्युपचारतः शैलेशी । अथवा, प्राकृतत्वादेव ""से भिक्खू वा भिक्खुणी वा" इत्यादिन्यायतः ' से त्ति सो महरिसी' अलेश्यो लेश्यारहितो भवति यस्यामवस्थायां सा शैलेशी, अकारलोपादिति । अथवा, शीलं समाधानं तच्च निश्चयतः प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः, ततस्तस्य सर्वसंवररूपस्य शीलस्येशः शीलेशस्तस्येयमवस्था शैलेशीति ।। ३०६५ ।। ३०६६ ।। ३०६७ ॥ Jain Education International शैलेशीकालप्रमाणमाह सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अत्थइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ ३०६८॥ नातिशीघ्रैर्न चाप्यतिस्थिरैः किन्तु मध्यमभङ्ग्या यावता कालेन 'अ इ उ ऋ लृ ' इत्येतानि पञ्च हस्वाक्षराणि भण्यन्ते, एतावन्तं कालं शैलेशीगतस्तकोऽसौ तिष्ठतीति ।। ३०६८ ।। किं पुनस्तत्र ध्यानं ध्यायति ? इत्याह- रोहारंभाओ झाय सुहुमकिरिया नियहिं सो । बुच्छिन्नाकेरियमप्पडिवाई सेलेसिकालम्मि ॥ ३०६९ ॥ तनोः काययोगस्य निरोधारम्भसमयात् प्रभृति सूक्ष्मक्रियानिवृत्तिरूपं शुक्रुध्यानमसौ ध्यायति । ततः सर्वयोगनिरोधादूर्ध्वं १ शैलेशः किल मेरुः शैलेशी भवति या तदचलता। भूत्वा वाऽशैलेशः शैलेशीभवति स्थिरतया ॥ ३०६५ ॥ अथवा शैल इव ऋषिः शैलेशी भवत्यतिस्थिरतया । स वाऽलेश्यो भवति शैलेशी भवत्यलोपात् ॥ ३०६६ ।। शीलं वा समाधानं निश्रयतः सर्वसंवरः स च तस्येशः शीलेशः पशैलेशी भवति तदवस्था ॥ ३०६७ ॥ २ स भिक्षुर्वा भिक्षुकी वा । ३ स्वाक्षराणि मध्येन येन कालेन पञ्च भव्यन्ते । तिष्ठति शैलेशगितस्तावन्मात्रं सकः कालम् ।। ३०६८ ।। ४ तनुराधारम्भाद् ध्यायति सूक्ष्मक्रियानिवृत्ति सः । न्युच्छिक्रियमप्रतिपाति शैलेशीकाले ॥ ३०६९ ॥ For Personal and Private Use Only बृहद्वतिः । ।।११९२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202