Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 200
________________ विशेषा. ॥११९८॥ अत एवाह ऐवं च गम्मइ धुवं तरतमजोगोवओगया तस्स । जुगबोवओगभावे सागरविसेसणमजुत्तं ॥ ३.९० ॥ एवं च साकारोपयोगविशेषणाद् लभ्यते; किम् ?, अत आह- ध्रुवं निश्चितं तरतमयोगोपयोगता सिद्धस्य- अन्यस्मिन् । काले तस्य साकारोपयोगः, अन्यत्र चानाकारोपयोग इति । अन्यथा बाधामाह- युगपदुपयोगभावे साकारविशेषणं प्रज्ञापनोक्तमयुक्तमेव स्यादिति ॥३०९०॥ अत्र परमतमाशङ्कय परिहरनाहअहव मई सव्वं चिय सागारं से तओ अदोसो त्ति। नाणं ति दसणं ति च न विसेसो तं च नो जम्हा॥३.९१॥ सागारमनागारं लक्खणमेयं ति भणियमिह चेव । तह नाण-दसणाई समए वीसं पसिद्धाइं ॥ ३०९२ ॥ . अथ मतिः परस्य- सर्वमेव 'से' तस्य सिद्धस्य ज्ञानं दर्शनं वा साकारम् । ततः साकारोपयोगविशेषणेऽदोष एव, स्वरूपविशेषणत्वात् तस्य । यदपि केवलज्ञानं केवलदर्शनं च तस्योच्यते, तत्रापि तयोर्न विशेष इत्यभिप्रायवता प्रोक्तं स्तुतिकारेण "एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं सर्वेषां तमसां निहन्तृ जगतामालोकनं शाश्वतम् । नित्यं पश्यति बुध्यते च युगपद् नानाविधानि प्रभो ! स्थित्यु-त्पत्ति-विनाशवन्ति विमलद्रव्याण ते केवलम् ॥१॥" तश्च न युक्तम् , यस्मात् साकारमनाकारं च लक्षणं सिद्धानामितीहैव पुरतो भणितं वर्तते, यद् वक्ष्यति 'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥१॥ इति । तदनयोः साकारा-ऽनाकारलक्षणयोर्भेदेनोक्तत्वात् कथमुच्यते- 'सर्वमेव तस्य साकारम् ?' इति भावः। तथा, समये सिद्धान्ते विष्वक पार्थक्येन ज्ञान-दर्शने सिद्धानां नेषु स्थानेषु प्रसिद्ध, अतः कथं तयोरविशेष उच्यते । इति हृदयम् ॥३०९१|३०९२॥ , एवं च गम्यते धुवं तरतमयोगोपयोगता तस्य । युगपदुपयोगभावे साकारविशेणमयुक्तम् ॥ ३०९० ॥ २ अथवा मतिः सर्वमेव साकारं तस्य ततोऽदोष इति । ज्ञानमिति दर्शनमिति च नो विशेषस्तच नो यस्मात् ॥ ३०९॥ साकारमनाकारं लक्षणमेतदिति भणितमिहैव । तथा ज्ञान-दर्शने समये विष्वक् प्रसिद्ध ॥ ३०९२ ॥ ३ भशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारमनाकारं लक्षणमेतत् तु सिद्धानाम् ॥1॥ ॥११९८॥ Jan Education International For Personal and Price Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202