Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 199
________________ विशेषा० ॥११९७ ॥ Jain Education International वानिति यदुक्तं भवति एतदिह तात्पर्यमित्यर्थः ॥ ३०८६ ॥ अपरं च तदा तस्य किं निवर्तते किं वा न ? इति दर्शयन्नाह - तैस्सोदइयाईया भव्वत्तं च विणिवत्तए समयं । सम्मत्त नाण- दंसण- सुह-सिद्धत्ताई मोत्तूणं ॥ ३०८७ ॥ तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं युगपद् विनिवर्तते । भवा भाविनी सिद्धिर्यस्यासौ हि भव्य उच्यते, न च सा तस्य भाविनी, साक्षात्संजातत्वात्, ततोऽसौ न भव्य इति भव्यत्वं निवर्तते; उक्तं च- ""सिद्धे नो. भव्वे नो अभव्वे" इति । सम्यक्त्वादीनि तु सिद्धावपि भवन्ति, अतस्तन्निवृत्तिवर्जनम् । इति पञ्चपञ्चाशद्गाथार्थः ॥ ३०८७ ।। नवदारिकादिशरीराणां कथं सर्वथा त्यागः, कर्मशरीर सन्तानस्यानादित्वात्, अनादेश्वानन्तत्वात् । इत्याशङ्कयोत्तरम्, प्रासङ्गिकमैन्यदपि चाह- 'नणु सन्ताणोऽणाई' इत्यादिद्वाविंशतिगाथाः । एताश्च पूर्व षष्ठगणधरे प्रायो लिखिताः, व्याख्याता लिख्यन्त इति ॥ कियता कालेन पुनरसौ सिध्यति ? इत्याह रिउसेढीपाडवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥३३०८८॥ सुबोधा, नवरं 'समयेत्यादि' एकसमयादन्यत् समयान्तरमस्पृशन्नव गाढमदेशेभ्योऽपराकाशप्रदेशांत्स्वस्पृशन्नचिन्तया शक्त्या सिद्धिं गच्छतीति भावार्थः ॥ ३०८८ ॥ कथं पुनरसौ साकारोपयोग एव सिध्यति ? इत्याह सेव्वाओ लडीओ जं सागरोवओगलाभाओ । तेणेह सिद्धलडी उप्पज्जइ तदुवउत्तस्स ॥ ३०८९ ॥ प्रतीतार्थैव । एतच्च 'साकारोपयोगे वर्तमानः सिध्यति' इति विशेषणं प्रज्ञापनायां विहितम् । अनेन चात्र केवलसाकारोपयोगे ये विप्रतिपद्यन्ते, साकारा - ऽनाकारोपयोगयोः सिद्धस्य युगपदभ्युपगमात्, ते निरस्ताः ॥ ३०८९ ॥ 1 तस्यौदविकादिका भव्यत्वं च विनिवर्तते समकम् सम्यक्स्व-ज्ञान दर्शन- सुख-सिद्धत्वानि मुक्त्वा ॥ ३०८७ ॥ २ सिद्धो नो भव्यः, नो अभव्यः । ३ क. ग. 'मपि किञ्चिदन्यदाह' । ४ ऋजुश्रेणिप्रतिपचः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यत्यथ स्वाकारोपयुक्तः सः ॥ ३०८८ ॥ सर्वा लब्धयो यत् साकारोपयोगकाभात् । तेनेह सिद्धलब्धिपद्यते तदुपयुक्तस्य ॥ ३०८९ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥११९७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202