Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PATEL
विशेषा.
हत्तिः ।
॥११९६॥
यद्यमनस्कस्यापि केवलिनो ध्यानमिष्यते, तर्हि सिद्धस्य किमिति नाभ्युपगम्यते ? । भण्यतेवोत्तरम्- यद् यस्मात् तस्य सिद्धस्य कारणाभावेन प्रयत्नो नास्ति, न च योगलक्षणं निरोद्धव्यमस्ति । अतः प्रयत्नाभावात् प्रयोजनाभावाचन सिद्धस्य | ध्यानमिति ॥ ३०८१ ॥
भवतु केवलिनो ध्यानम् , किन्तु शैलेश्यां वर्तमानः किमसौ करोति ? इत्याहतदसंखेज्जगुणाए गुणसेढाए रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ॥ ३०८२ ॥ सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्चा होइ चरिमे सेलेसीए य तं वोच्छं ॥३०८३॥ मणुयगइ-जाइ-तस-बायरं च पज्जत्त-सुभयमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ॥३०८४॥ संभवओ जिणनामं नराणुपुन्वी य चरिमसमयम्मि।सेसा जिणसंता ओ हु चरिमसमयम्मि निट्ठति ॥३०८५॥
पाठसिद्धा एव, नवरं तदिति वेदनीयादिकर्म । 'जिणनामं ति' तीर्थकरनाम । इदं च तीर्थकरस्यैव संभवति, अतः 'संभवतः इत्युक्तम् । सामान्यकेवली तु शेषा मनुष्यगति-पञ्चेन्द्रियजात्यादिका द्वादशैव प्रकृतीश्वरमसमये अपयतीति ॥ ३०८२ ॥ ३०८३ ।। ॥३०८४ ॥ ३०८५ ॥
अन्यदपि तत्र किमसौ करोति ? इत्याह- .
ओरालियाहि सव्वाहिं चयइ विप्पजहणाहिं जं भणियं । निस्सेसतया न जहा देसच्चाएण सो पुव्वं ॥३०८६॥
औदारिक तैजस कार्मणशरीरत्रयं सर्वाभिरेव विशेषवतीभिः प्रकृष्टाभिस्त्यजनाभिस्त्यजत्यसौ । किमुक्तं भवति ? इत्याह-'जं भणियमित्यादि' निःशेषतयैवौदारिकादिशरीरत्रयं तदा त्यजति, न तु यथा पूर्व भवे भ्राम्यन् संघात-परिसाटाभ्यां देहत्यागेन त्यक्त
१ तदसंख्येयगुणायां गुणश्रेणी रचितं पुरा कर्म । समये समये क्षपितं क्रमशः शैलेशिकालेन ॥ ३०८२ ॥ सबै क्षपयति तत् पुननिलेपं किञ्चिदुपरिमे समये । किञ्चिरच भवति चरमे शैलेश्यां च तद् वक्ष्ये ॥ ३०८३ ॥ मनुजगति-जाति-प्रस-बादराणि च पर्याप्त-सुभगा-देयानि । अन्यतरवेदनीय नरायुरुच्चं यशानाम ॥ ३०८४ ॥ संभवतो जिननाम नरानुपूर्वी चरमसमये । शेषा जिनसन्तस्तु चरमसमये निस्तिष्ठन्ति ॥ ३०४५॥ २ औदारिकादि सर्वाभिस्त्यजति विप्रयजनाभिर्यद् भणितम् । निःशेषतया न यथा देशत्यागेन स पूर्वम् ॥१०८६ ॥
Jan Education International
For Personal and Price Use Only
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202