Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________ विशेषा. वृहदृत्तिः / // 1200 सिद्धिस्तव, तहदिमपि भणितं वर्तते, तत् शृणु // 3095 // किं पुनस्तत् ? इत्याह नौणम्मि दसणम्मि य एत्तो एगयरयम्मि उवउत्तो / सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा // 3096|| एतदिहैव व्यक्तं पुरस्ताद् वक्ष्यति / ततोऽस्यां गाथायां भद्रबाहुस्वामिभिर्व्यक्तेऽपि युगपदुपयोगे निषिद्ध तद्योगपद्याभिमानोऽद्यापि न त्यज्यते ? इति भावः॥ 3096 // अत्र परस्य व्याख्यान्तरकल्पनामाशय परिहारमाहअह सव्वस्सेव न केवलिस्स दो किंतु कासइ हवेज्ज / सो य जिणो सिद्धो वा तं च न सिहाहिगाराओ॥३०९७|| अथैवं व्याख्यायते परेण-न सर्वस्यैव केवलिनो युगपद् द्वावुपयोगी, किन्तु कस्यापि द्वौ भवेताम् , कस्यचिदेकः / स च केवली जिनः सिद्धो वा भवेतु- भवस्थकेवली सिद्धकेवली वा भवेदित्यर्थः। ततश्च भवस्थकेवलिनोऽयापि सकर्मकन्वादेकदैक एवोपयोगः, सिद्धकेवलिनस्तु सर्वथा कर्ममलकलङ्कविप्रमुक्तत्वाद् युगपद् द्वावुपयोगौ भवत इति परस्याकूतम् / तच्च न युक्तम् , इह सिद्धाधिकारात् / इदमुक्तं भवति- 'सव्वस्स केवलिस्सा' इत्यादिना सिद्धाधिकारे सिद्धस्यैव भद्रबाहुस्वामिभियुगपद् द्वावुपयोगी निषिद्धी, अतो न किश्चित् त्वत्कृता व्याख्यान्तरकल्पनेह फलवतीति भावः॥३०९७॥ सूरिः समाधानान्तरमाहअहवा पुव्वद्धणव सिद्धमिक्को ति किंथ बिइएणं / इत्तो च्चिय पच्छद्धे वि गम्मई सव्वपडिसेहो // 3098 // अथवा, 'नाणम्मि दंसणाम्म य एत्तो एगयरम्मि उवउत्तो' इत्यनेन पूर्वार्धेनैवैकदा एक उपयोगः सिद्धः, ततः किं द्वितीयेन पश्चार्धेनोक्तेन ?, उक्तं चेदम् , ततः 'इत्तो चिय त्ति' इत एव 'सव्वस्स केवलिस्सा' इत्यादिपश्चा?पन्यासात् सर्वप्रतिषेधो गम्यते, यथा- सर्वस्य केवलिनोऽपि युगपद् द्वावुपयोगौ न स्तः, किमुताकेवलिनः ? इति // 3098 // ज्ञाने दर्शने चेत एकतरस्मिन्नुपयुक्तः / सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगी // 3096 // 2 अथ सर्वस्यैव न केवलिनो द्वौ किन्तु कस्यचिद् भवेताम् / स च जिनः सिद्धो वा तच न सिद्धाधिकारात् // 3.97 // 3 गाथा 3096 . अधवा पूर्वानव सिदमेक इति किमत्र द्वितीयेन / इत एव पश्चार्धेऽपि गम्यते सर्वप्रतिषेधः // 3098 // // 1200 // For Personal and Present
Loading... Page Navigation 1 ... 200 201 202