Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥११९३॥
बृहद्वत्तिः ।
शैलेशीकाले समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायतीति ॥ ३०६९ ॥ ___ अत्र प्रेर्यमाशङ्कय परिहरनाह--
झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो । भण्णइ भणियं झाणं समए तिविहवि करणंमि ॥३०७०॥
ननु 'ध्यै चिन्तायाम्' इति वचनाद् मनोविशेषो मनसः कापि निश्चला चिन्तावस्थैव ध्यानमुच्यते । मनश्च "अमनस्काः केवलिन" इति वचनात् तस्य नास्ति । ततस्तदभावे मनसोऽसत्वे तस्य ध्यानस्य केवलिनः कुतः संभवः । अतः 'तनुरोहारंभाओ' इत्याबघटमानमेवेति । सूरिराह- भण्यतेत्रोत्तरम्- 'भङ्गियसुर्य गुणतो बट्टइ तिविहे वि ज्ञाणम्मि' इत्यादिवचनात् त्रिविधेऽपि मनो-वाक्कायलक्षणे करणे समये सिद्धान्ते ध्यानं भणितमेव । ततो मनोविशेष एवं ध्यानमित्यनकान्तिकम् , वाक्-कायव्यापारेऽपि ध्यानस्योक्तत्वादिति भावः ॥ ३०७०॥
यतः परिभाषा
सुंदड्ढपयत्तवावारणं निरोहो व विज्जमाणाणं । झाणं करणाण मयं न उ चित्तनिरोहमित्तागं ॥३०७१॥
यतश्च मनोवाक्-कायलक्षणानां करणानां सुदृढपयत्नेन व्यापारणम् , विद्यमानानां पूर्वोक्तक्रमेण निरोधो वा ध्यान भगवतां मतम् , न पुनश्चित्तनिरोधमात्रकम् , ध्यैधातोरनेकार्थत्वात् , करणनिरोधार्थेऽपि वर्तनादिति ।। ३०७१ ॥
ततश्चहोज्ज न मणोमयं वाइयं च झाणं जिणस्स तदभावे । कायनिरोहपयत्तस्सभावमिहं को निवारेइ ? ॥३०७२॥
तदभावे मनसोऽभावे केवलिनो मनोमयं मनोविशेषरूपम् , तथा, मनःपूर्वकत्वाद् विशिष्टवचसो वाचिकं च ध्यानं न भवेत् , तद् मा भूत , यत् पुनः कायनिरोधप्रयत्नस्वभावं ध्यानमिह, तत् तस्य को निवारयति ?-न कोऽपीति ॥ ३०७२ ॥
, ध्यानं मनोविशेषस्तदभावे तस्य संभवः कुतः । भण्यते माणितं ध्यानं समये विविधेऽपि करणे ॥ ३०७०॥ २ गाथा ३०६९।३ भकिमुपगुणयन् वर्तते त्रिविधेऽपि ध्याने। ४ मुखमयसव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रकम् ॥ ३०७१ ॥
५ भवेदन मनोमयं याचिकं च ध्यानं जिनस्य तदभावे । कायनिरोधप्रयवस्वभावमिह को निवारयति॥३०७२॥ १५०
॥११९३॥
Jain
Internation
For Personal and
Use Only
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202