SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥११९३॥ बृहद्वत्तिः । शैलेशीकाले समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायतीति ॥ ३०६९ ॥ ___ अत्र प्रेर्यमाशङ्कय परिहरनाह-- झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो । भण्णइ भणियं झाणं समए तिविहवि करणंमि ॥३०७०॥ ननु 'ध्यै चिन्तायाम्' इति वचनाद् मनोविशेषो मनसः कापि निश्चला चिन्तावस्थैव ध्यानमुच्यते । मनश्च "अमनस्काः केवलिन" इति वचनात् तस्य नास्ति । ततस्तदभावे मनसोऽसत्वे तस्य ध्यानस्य केवलिनः कुतः संभवः । अतः 'तनुरोहारंभाओ' इत्याबघटमानमेवेति । सूरिराह- भण्यतेत्रोत्तरम्- 'भङ्गियसुर्य गुणतो बट्टइ तिविहे वि ज्ञाणम्मि' इत्यादिवचनात् त्रिविधेऽपि मनो-वाक्कायलक्षणे करणे समये सिद्धान्ते ध्यानं भणितमेव । ततो मनोविशेष एवं ध्यानमित्यनकान्तिकम् , वाक्-कायव्यापारेऽपि ध्यानस्योक्तत्वादिति भावः ॥ ३०७०॥ यतः परिभाषा सुंदड्ढपयत्तवावारणं निरोहो व विज्जमाणाणं । झाणं करणाण मयं न उ चित्तनिरोहमित्तागं ॥३०७१॥ यतश्च मनोवाक्-कायलक्षणानां करणानां सुदृढपयत्नेन व्यापारणम् , विद्यमानानां पूर्वोक्तक्रमेण निरोधो वा ध्यान भगवतां मतम् , न पुनश्चित्तनिरोधमात्रकम् , ध्यैधातोरनेकार्थत्वात् , करणनिरोधार्थेऽपि वर्तनादिति ।। ३०७१ ॥ ततश्चहोज्ज न मणोमयं वाइयं च झाणं जिणस्स तदभावे । कायनिरोहपयत्तस्सभावमिहं को निवारेइ ? ॥३०७२॥ तदभावे मनसोऽभावे केवलिनो मनोमयं मनोविशेषरूपम् , तथा, मनःपूर्वकत्वाद् विशिष्टवचसो वाचिकं च ध्यानं न भवेत् , तद् मा भूत , यत् पुनः कायनिरोधप्रयत्नस्वभावं ध्यानमिह, तत् तस्य को निवारयति ?-न कोऽपीति ॥ ३०७२ ॥ , ध्यानं मनोविशेषस्तदभावे तस्य संभवः कुतः । भण्यते माणितं ध्यानं समये विविधेऽपि करणे ॥ ३०७०॥ २ गाथा ३०६९।३ भकिमुपगुणयन् वर्तते त्रिविधेऽपि ध्याने। ४ मुखमयसव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रकम् ॥ ३०७१ ॥ ५ भवेदन मनोमयं याचिकं च ध्यानं जिनस्य तदभावे । कायनिरोधप्रयवस्वभावमिह को निवारयति॥३०७२॥ १५० ॥११९३॥ Jain Internation For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy