Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥१०९४॥
PERPRIORDPRPeppecar
तथा, उन्मुञ्चश्च केशाधलङ्कारं चतुर्णामन्यतरत् सामायिक प्रतिपद्यते । अत्र च भरतचक्रवर्त्यादय उदाहरणं मन्तव्याः। एवं शयने, आसने, स्थाने, चक्रमणे च परित्यक्तेऽपरित्यक्ते परित्यज्यमाने चैतासु तिसृष्वप्यवस्थासु चतुर्णामन्यतरत् प्रतिपद्यते । प्राक्षतिपन्नश्च सर्वत्र लभ्यते ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ तदेवमुक्तं विस्तरतः 'कहि' इति द्वारम् ।। २७५० ॥ ___ अथ 'केषु' इति द्वारमभिधातुमाह
सव्वगयं सम्मत्तं सुय-चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥२७५१॥
अथ 'केषु द्रव्येषु पर्यायेषु च सामायिकम् ?' इति जिज्ञासायामुच्यते- सर्वद्रव्य-पर्यायगतं सम्यक्त्वम् , सर्वद्रव्य-पर्यायश्रद्धानरूपत्वात् तस्य । तथा, श्रुते श्रुतसामायिके, चारित्रे चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति, विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात् , पर्यायाणां चाभिलाप्या-ऽनभिलाप्यरूपत्वादिति ; चारित्रस्यापि 'पंढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्या-ऽसर्वपर्यायविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य योरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्-न। सर्वद्रव्यविषयम् , नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः ।। इति नियुक्तिगाथार्थः ।। २७५१ ॥
अथ भाष्यकारव्याख्या-- ऐगं पि असदहओ जं दव्वं पज्जवं च मिच्छत्तं । विणिउत्तं सम्मत्तं तो सव्वदव्व-भावेसु ॥ २७५२ ॥ नाणभिलप्पेसु सुयं जम्हा न य दव्वमणभिलप्पं ति । सव्वद्दव्वेसु तयं तम्हान उसव्वभावेसु ॥२७५३।। बिइय-चरिमव्वयाई पइ चारित्तमिह सव्वदव्वेसु । न उ सव्वपज्जवसुं सव्वाणुवओगभावाओ ॥ २७५४ ॥
व्याख्या- यद् यस्मादेकमपि द्रव्यं पर्याय वा जिनप्रणीतमश्रद्दधतः सतो मिथ्यात्वमुक्तम् । ततः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु 'श्रद्धानभावेन' इति शेषः । यस्माच्च श्रुतज्ञानमनभिलाप्येषु न प्रवर्तते, अविषयत्वात् तेषाम् ; किन्त्वभिलाप्येष्वेवार्थेषु तत्
, सर्वगतं सम्यक्त्वं श्रुत-चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ २७५७ ॥ २ गाथा २६३७ । ३ एकमप्यश्रद्दधतो यद् द्रव्यं पर्यवं च मिथ्यात्वम् । विनियुक्कं सम्यक्त्वं ततः सर्वद्रव्य-भावेषु ॥ २७५२ ॥ मानभिलाप्येषु श्रुतं यस्माद् न च द्रव्यमनभिलाप्यमिति । सर्वदम्यषु तत् तस्माद् न तु सर्वभावेषु ॥ २०५३ ॥
॥१०९४॥ द्वितीय चरमव्रते प्रति चारित्रमिह सर्वद्रव्येषु । न तु सर्वपर्यवेषु सर्वानुपयोगभावात् ॥ २७५५ ।।
Jan E
inema
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202