Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
तथा च सत्यस्य नमस्कारस्योत्पत्तिमत्वादविशुद्ध नैगम-संग्रह-व्यवहारलक्षणं प्रथमनयत्रिकं समुत्थान-वाचना-लब्धिस्वरूपं त्रिविध विशेषा निमित्तमिच्छति । कुतः? इत्याह- 'एत्तो इत्यादि' यद् यस्माद् यतस्विविधाद् निमित्तादन्यथाऽन्येन प्रकारेण नमस्कारस्य नास्ति ॥११२१॥ ADE संभूतिरुत्पत्तिरिति ॥ २८२७॥
तत्र समुत्थानलक्षणं निमित्तं व्याचिख्यासुराह
'देहसमुत्थाणं चिय हेऊ भवपच्चयावहिस्सेव । पुव्वुप्पण्णस्स वि से इहभवभावो समुत्थाणं ॥२८२८॥
सम्यक् संगतं वोत्तिष्ठति जायतेऽस्मादिति समुत्थानम् , देह एव समुत्थानम् , तदेव तावद् हेतुर्निमित्तं 'से' तस्य नमस्कारस्य । आह- यदाज्यमन्यभव एव स्वावरणक्षयादुत्पन्नः स्यात् तदा कथमयं देहो हेतुः ? इत्याशङ्कयाह- 'पुव्वुप्पन्नस्स वि से इहभवभावो समुत्थाणं ति' प्राग्भव उत्पन्नस्यापि नमस्कारस्येहभवभाव इहभवशरीरं समुत्थानं कारणं भवति, एतद्भावभावित्वात् तस्य । दृष्टान्तमाह- 'भवपच्चयावहिस्सेव त्ति' यथा हि भवप्रत्ययोऽवधिस्तीर्थकरादिसंबन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति । ततश्चेहभवशरीरं तस्य समुत्थानमेवं नमस्कारस्यापीति । एतदुक्तं भवति- यथा पूर्वोत्पन्ना अपि घटादयो दीपेनाभिव्यज्यन्ते, एवं पूर्वोत्पन्नोऽपि नमस्कार इहभवदेहेनाभिव्यज्यते, इत्यसौ तस्य निमित्तं व्यपदिश्यत इति ॥ २८२८ ।। अत्र परमतमाशङ्कय परिहरन्नाह
अण्णे सयमुत्थाणं सविरियमन्नोवगारविमुहं ति । तदजुत्तं तदवत्थे चुयलद्धे लडिओ णणं ॥ २८२९ ॥
अन्ये मूरयः स्वकमुत्थानं स्वमुत्थानं स्ववीर्यमित्याचक्षते । कुतः ? इत्याह- 'अन्नोवगारविमुहं ति' अन्येनापान्तरालवर्तिना कारणान्तरेण कृत उपकारोऽन्योपकारस्तद्विमुखं तन्निरपेक्षं यतोऽनन्तरकारणमित्यर्थः, तस्मादन्योपकारविमुखत्वादनन्तरकारणत्वात् खवीर्यनमस्कारस्य समुत्थानं कारणमिति । एतन्निरासार्थमाह- 'तदजुत्तं ति' तद् वीर्यमयुक्तम् , नमस्कारानन्तरकारणतया व्यभिचारित्वात् । कुतः ? इत्याह- 'तदवत्थे इत्यादि' यतस्तदवस्थेऽपि विद्यमाने वीर्य कस्यापि लब्धोऽपि नमस्कारः स्वावरणोदयात् पुनरपि च्यवते भ्रस्यति; च्युतोऽपि कदाचित् तदावरणक्षयोपशमात् पुनरपि लभ्यते । तत एवं तदवस्थेऽपि वीर्ये च्युतलब्धे नमस्कारे सति
, देहसमुत्थानमेव हेतुर्भवप्रत्ययावधेरिव । पूर्वोत्पन्नस्यापि तस्येहभवभावः समुत्थानम् ॥ २८२८ ॥ २ अन्ये खकमुत्थानं स्ववीर्यमन्थोपकाविमुखमिति । तद्युक्तं तवस्थे च्युतलब्धे लम्धितो नान्यत् ॥ २८२९॥
११२१॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202