Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 168
________________ विशेषा ० ॥११६६॥ Jain Education International ऋजुनयस्येदं मतम् - क्रोधः प्रथमकपायो द्वेषः, अमीत्यात्मकत्वात् । शेषाणां तु मान-माया लोभानां राग-द्वेषत्वविचारं प्रत्येतत् तस्य मतम् ; किम् ? इत्याह- अनेकान्तोऽनिश्चयः । एतदेव व्याचष्टे शेषे मानादिकषायत्रयवर्गे कोऽपि रागः, कोऽपि वा द्वेषः, इत्ययं परिणामवशेनैवावसेयो निश्रेयो नान्यथेति ।। २९७१ ।। कुतः १ इत्याह- 'संपयगाहित्ति नओ न उवओगदुगमेगकालम्मि । अप्पीइ-पीइमेत्तोव ओगओ तं तहा दिसइ ॥ २९७२ ॥ यतः सांप्रतग्राही वर्तमानैक्षणवस्तुग्राही तकोऽसौ ऋजुमूत्रः । ततः क्रोध- मानौ द्वेषः, माया-लोभौ तु राग इत्येवमसौ न मन्यते, मानादिक्षणकाले क्रोधादिक्षणाभावात् तदभावश्च तयोः क्रमभावित्वात् प्राक्तनस्य चोत्पश्यनन्तरमेव विनाशादिति । स एव च मानो द्वेषो भवति, कदा ? परगुणेषु यो द्वेषोऽमीतिस्तदुपयोगे तदध्यवसाय परिणतिकाल इत्यर्थः । अस्तु वा, क्रोध मानादीनां समकालभाविता, तथाप्युपयोगद्वयमसावेककालं न मन्यत इति कथं मिश्रकषायद्वयोपयोगाद् द्वेषो रागो वा स्यात् ? । एतदेवाह - 'न उवओगदुगमेगकालम्पि त्ति' न च कषायद्वयोपयोगमेककालमसौ मन्यते येन क्रोध मानौ द्वेषो माया-लोभौ तु रागः स्यादिति । तर्हि किमसौ मन्यते १ इत्याह- 'अप्पीईत्यादि' अप्रीति-प्रीतिमात्रोपयोगतस्तं तं मानादिकषायं तथा तथा व्यपदिशति ॥ २९७२ ॥ एतदेव भावयति माणो रागोति मओ साहंकारोवओगकालम्मि । सो च्चिय होइ दोसो परगुणदोसोवओगम्मि ||२९७३ ॥ माया लोभो चेवं परोवघाओवओगओ दोसो | मुच्छोवओगकाले रागोऽभिस्संगलिंगो ति ॥ २९७४ ॥ arrot- मानो राग इति ऋजुसूत्रस्य संमतः । क ? साहंकारोपयोगकाले- स्वस्मिन्नात्मनि 'अहो अहम्' 'नमो महाम्' इत्येवं योऽसावहङ्कारो निजगुणेषु बहुमानोऽभिष्वङ्गस्तदुपयोगकाले तदुपयोगसमय इत्यर्थः, एवं परोपघाताय व्याप्रियमाणौ माया-लोभौ द्वेषः, स्वशरीर स्वधन - स्वजनादिषु मूर्च्छपयोगकाले तु तावेव रागः । कुतः ? इत्याह- अभिष्वङ्गलिङ्ग इति कृत्वा । अभिष्वङ्गो हि रागः, यश्च स्वश १ सांप्रतमाहीति नयो नोपयोगद्विकमेककाले अप्रीति प्रीतिमानोपयोगतस्तं तथा दिशति ॥ २९७२ ॥ २ मानो राग इति मतः साहंकारोपयोगकाले। स एव भवति दोषः परगुणदोषोपयोगे ॥ २९७३ ॥ माया कोभश्चैवं परोपघातोपयोगतो दोषः । मूच्छपयोगकाले रागोऽभिष्वङ्गलिङ्ग इति ।। २९७४ ॥ For Personal and Private Use Only बृहद्वत्तिः । ।।११६६ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202