Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ॥११६५॥
'जं दोसवेयणिज्ज समुइण्णं एस भावओ दोसो । वत्थुविकिइस्सहावोऽनिच्छियमप्पीइलिंगो वा ॥२९६८॥
यद् दोषवेदनीयं द्वेषवेदनीयं वा कर्म समुदीर्णमुदयमाप्तमेष भावदोषो भावद्वेषो वा । अयं च स्वभावस्थस्य वस्तुनः शरीरदेशादे- बृहद्वृत्तिः। विकृतिस्वभावः कार्ये कारणोपचारात् प्रकृत्यन्यथाभावरूपः । तत्र भावदोषोऽनीप्सितलिङ्गोऽनिष्टदुष्टत्रणादिकार्यगम्यः । भावद्वेषस्त्वप्रीतिलिङ्ग इति ॥ २९६८॥
___अत्र च क्रोध-मानयोः कोऽपि मिश्रपरिणामोऽप्रीतिजातिसामान्यतः संग्रहमतेन द्वेषः, माया-लोभौ तु प्रीतिजातिसामान्यतः स एव रागमिच्छतीति दर्शयन्नाह--
कोहं माणं वाऽपीइजाईओ बेइ संगहो दोसं । माया-लोभे य स पीइजाइसामण्णओ रागं ॥२९६९ ॥ गतार्था ॥ २९६९ ॥ व्यवहारनयमाश्रित्याह-- ___ मायं पि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे च्चिय मुच्छा लोभो त्ति तो रागो॥२९७०॥
न केवलं क्रोध-मानौ, किन्तु मायामपि द्वेषमिच्छति व्यवहारनयः, यस्मादियमपि परोपघाताय परवञ्चनायैव विधीयते । ततो | माया द्वेषः, परोपघातहेतुत्वात् , क्रोध-मानवदिति । न्यायेन नीत्या मायामन्तरेणोपादीयत उपायंत इति न्यायोपादानं तस्मिन् न्यायोपादानेऽपि वित्ते यतो मूर्छा भवति, ततस्तदात्मको लोभो रागः । अन्यायोपात्ते तु वित्ते मायादिकषायसंभवेन द्वेष एव । स्यादिति न्यायोपादानविशेषणमिति भावः ।। २९७० ॥
ऋजुसूत्रमतमाह-- उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो।रागो त्ति व दोसो त्ति व परिणामवसेण उ वसेओ ॥२९७१॥
यद् दोषवेदनीयं समुदीर्णमेष भावतो दोषः । वस्तुविकृतिस्वभावोऽनीप्सिता-प्रीतिलिङ्गो वा ॥ २९६८ ।। २ क्रोधं मानं वाऽप्रीतिजातीयो अवीति संग्रहो दोषम् । माया-लोभौ च स प्रीतिजातिसामान्यतो रागम् ॥ २९६९ ॥
Hom११६५॥ ३ मायामपि दोषमिच्छति व्यवहारो यत् परोपघाताय । न्यायोपादानेऽपि मूर्छा लोभ इति ततो रागः ।। २९७० ॥ * मजुश्रुतमतं क्रोधी दोषः शेषाणां मतमनेकान्तः । राग इति वा द्वेष इति वा परिणामवर्शन स्ववसेयः ॥ २९.१ ॥
bachichisex
Jain Educationa.Inte
For Personal and Price Use Only
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202