Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 165
________________ विशेषा. बृहद्वृत्तिः । ॥११६३॥ पार्थः ॥ २९६०॥ विस्तरार्थमभिधित्सुस्तावद् रागस्वरूपं विकृणोति रजति तेण तम्मि व रंजणमहवा निरूविओ राओ। नामाइ चउब्भेओ दवे कम्मेयरविभिण्णो ॥२९६१॥ रज्यन्ते तेन, तस्मिन् वा सति क्लिष्टसत्त्वाः प्राणिनः स्त्र्यादिष्विति रागः। अथवा, रञ्जनं रागः । स च नामादिचतुर्भेदः स्थानान्तरे निरूपितो रागः । तत्र नाम-स्थापना-ज्ञशरीरभव्यशरीरद्रव्यरागविचारः सुज्ञेय एव । ज्ञ-भव्यशरीरव्यतिरिक्त तु द्रव्ये विचार्य को रागः? इत्याह- 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यरागः, नोकर्मद्रव्यरागश्चेत्यर्थः ॥ २९६१ ।। तत्र 'कर्मद्रव्यरागं व्याचिख्यासुराह-- जुग्गा बडा बझंतया य पत्ता उईरणावलियं । अह कम्मदव्वराओ चउब्विहा पोग्गला हंति ॥२९६२॥ 'अह त्ति' अर्थतद्व्याख्यानमुच्यते- तत्र कर्मद्रव्यरागचतुर्विधाः पुद्गला भवन्ति; तद्यथा- योग्या बन्धपरिणामाभिमुखाः, बध्यमानाः प्रारब्धवन्धक्रियाः, बद्धा उपरतवन्धक्रियाः । गाथावधानुलोम्याच व्यत्ययेनोपन्यासः । तथा, उदीरणाकरणेनाकृष्यादीरणावलिकां प्राप्ता यावदद्याप्युदयं न गच्छन्ति, उदयेन वेद्यमानानां भावरागत्वेन वक्ष्यमाणत्वादिति ॥ २९६२ ॥ नोकर्मद्रव्यरागमाह नोकम्मदव्वराओ पओगओ सो कुसुंभरागाई । बीओ य वीससाए नेओ संझब्भरागाई ॥ २९६३ ॥ नोकर्मद्रव्यरागस्तु द्विविधः-प्रयोगतः, विस्रसातश्च । तत्र प्रयोगतः कुसुम्भरागादिः, विरसातस्तु सन्ध्याभ्ररागादिरिति।।२९६३॥ भावरागमाह जं रायवेयणिज्ज समुइण्णं भावओ तओ राओ । सो दिद्वि-विसय-नेहाणुरायरूवो अभिरसंगो ॥२९६४॥ १ रज्यन्ते तेन तस्मिन् वा रजनमधवा निरूपितो रागः । नामादिश्चतुर्भदो द्रव्ये कर्मतरविभिन्नः ॥ २९६१ ॥ २ योग्या बद्धा बध्यमानाश्च प्राप्ता उदारणावलिकाम् । अथ कर्मद्रव्यरागश्चतुर्विधाः पुद्गला भवन्ति ॥ २९६२ ॥ ३ नोकर्मद्रव्यरागः प्रयोगतः स कुसुम्भरागादिः । द्वितीयश्च विखसातो ज्ञेयः सम्यारागादिः ॥ २९६३ ॥ ५ यद् रागवेदनीयं समुदीर्ण भावतः सको रागः । स दृष्टि-विषय-स्नेहा-ऽनुरागरूपोऽभिष्वङ्गः ॥ २९६४।। ११६३॥ Jan E in For Personal and Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202