Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 176
________________ विशेषा. ॥११७४॥ 'पंचेंदिउव्व बउलो नरो व्व सव्वविसओवलंभाओ। तहविन भण्णइ पंचेदिउत्ति बज्झेंदियाभावा ॥३००१॥ पञ्चेन्द्रिय इव बकुल इति प्रतिज्ञा । सर्वेषामपि शब्द-रूपादिविषयाणामुपलम्भादिति हेतुः । नरवदिति दृष्टान्तः । ननु बकुलस्य रसनेन्द्रियोपलम्भ एव युक्तः, तत् कथमस्य सर्वविषयोपलम्भसंभव इति । सत्यम् , मुख्यस्तावत् स एव संभवति, | गौणत्या तु शेषेन्द्रियविषयोपलम्भोऽप्यस्य संभाव्यते, शृङ्गारितस्वरूपतरुणीमदिरागण्डूषापेक्षणात् , तस्या च तनुलतास्पर्शाधररस-चन्दनादिगन्ध-शोधनरूप-मधुरोल्लापलक्षणानां पश्चानामपीन्द्रियविषयाणां संभवादिति । अन्यथा वा पश्चेन्द्रियत्वमस्य सुधिया भावनीयम् तोकेन्द्रियो बकुलः कथं प्रसिद्धः पञ्चन्द्रियोऽपि कस्माद् नोपदिश्यते ? इत्याह- तथापि पश्चेन्द्रियोऽसौ न भण्यते, बाह्यानां नित्यादिद्रव्येन्द्रियाणामभावादिति ॥ ३००१॥ ___ अमुमेवार्थ कुम्भकारव्यपदेशदृष्टान्तेन समर्थयन्नाहसुत्तो वि कुंभनिव्वत्तिसत्तिजुत्तो त्ति जह स घडकारो । लळिदिएण पंचेंदिओ तहा बज्झरहिओ वि ॥३००२॥ सुबोधा ॥ ३००२॥ अथेन्द्रियाणां लाभक्रम उच्यते । तत्र यदा द्रव्येन्द्रियसामान्यं भावेन्द्रियसामान्यं वाश्रित्य पृच्छयते, तदा 'तेल्लाभे चेव सेसं पि' इति प्रागुक्तवचनाल्लब्धिमाश्रित्य प्रथमं भावेन्द्रियलाभस्ततो द्रव्येन्द्रियलाभ इति द्रष्टव्यम् । यदा तु द्रव्येन्द्रिय-भावन्द्रियसामान्याद् भिन्नः कृतो लाभः पृच्छयते- विशेषरूपतया पृच्छयत इत्यर्थः । तदेत्थं द्रष्टव्यम्- प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिर्भवति, ततो बाह्यान्तरभेदभिन्ना निर्वृत्तिः, ततश्चान्तरनिर्वृत्तेः शक्तिरूपमुपकरणम् , । तदनन्तरं पश्चेन्द्रियार्थोपयोग इति एतदेवाह लाभक्कमे उ लडी निव्वत्तु-वगरण उवओगो य । दविदिय-भाविंदियसामण्णाओ कओ भिण्णो॥३०.३॥ व्याख्याता ॥ तदेवं व्याख्यातमिन्द्रियस्वरूपम् ॥ ३००३ ॥ अथ परीषहान् व्याचिख्यासुराह ॥११७४॥ , पञ्चेन्द्रिय इव चकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बान्दियाभावात् ॥ ३०.1॥ २ सुप्तोऽपि कुम्भानिवृत्तिशक्तियुक्त इति यथा स घटकारः । लब्धीन्द्रियेण पझेन्द्रियस्तथा बाह्यरहितोऽपि ॥ ३००२॥ गाथा ॥२९९७॥ ३ काभकमे तुलब्धिनित्यु-पकरणे उपयोगश्च । द्रव्येन्द्रिय-भावेन्द्रियसामान्यात् कृतो भिन्नः ॥ ३००३ ॥ Jan Education International For Personal and Price Use Only

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202