Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 180
________________ विशेषा. ॥११७८॥ अरहंतनमोक्कारो एवं खलु वण्णिओ महत्थो.त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरइ बहुसो ॥३०१५॥ अहन्नमस्कार एवं खलु वर्णितो महार्थ इति महानर्थो यस्य स महार्थोऽल्पाक्षरोऽपि द्वादशाङ्गार्थसंग्राहित्वाद् महार्यः । कथं पुनरेतदेवम् ? इत्याह- यो नमस्कारो मरणे प्राणोपरमलक्षणे उपाग्रे समीपभूतेऽभीक्ष्णमनवरतं क्रियते बहुशोऽनेकशः । ततश्च महत्यामापदि द्वादशाङ्गी मुक्त्वा तत्स्थानेऽनुस्मरणाद् महार्थः ॥ इति नियुक्तिगाथार्थः ॥ ३०१५ ।। कथं पुनद्वादशाङ्गार्थो नमस्कारः ? इत्याशक्य युक्तिमाह भाष्यकार:---- जेलणाइभए सेसं मोत्तुं पगरणं महामोल्लं । जुधि वातिभए घेप्पइ अमोहमत्थं जह तहह ॥ ३०१६ ॥ मोत्तुं पि बारसंगं मरणाइभएसु कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्थो ॥ ३०१७ ॥ सव्वं पि बारसंगं परिणामविसुद्धिहेउमित्तागं । तत्कारणभावाओ कहं न तयत्थो नमोकारो ? ॥ ३०१८॥ न हु तम्मि देसकाले सक्को बारसविहो सुयक्खंधो । सवो अणुचिंतेउं धंतं पि समत्थचिंतेणं ॥ ३०१९॥ चतस्रोऽपि सुगमाः, नवरं 'देसकाले त्ति' देशः प्रस्तावस्तद्रूपकालो देशकालस्तस्मिन् मरणलक्षणे देशकाल इति । 'धंतं पि त्ति' धनितमत्यर्थमिति ॥ ३०१६ ॥ ३०१७ ॥ ३०१८ ॥ ३०१९ ॥ एकस्मिन्नपि यत्र वीतरागोक्त पदे सति जीवः संवेगं गच्छति, 'येन च पदेन विरागत्वं भवति निर्वेदमुपैति, तत् तस्यैकमपि पदं समस्तमोहजालोच्छेदहेतुत्वात् संपूर्णद्वादशाङ्गरूपं ज्ञानमेव भवति, तत्कार्यकर्तृत्वात् , किं पुनरनेकपदात्मको नमस्कारः संपूर्णद्वादशाङ्गज्ञानं न भविष्यति ? इत्यनया भङ्ग्या नमस्कारस्य द्वादशाङ्गरूपतां साधयन्नाह १ अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपानेऽभीक्ष्णं क्रियते बहुशः ॥ ३०१५॥ २ ज्वलनादिभये शेषं मुक्त्वा प्रकरणं महामूल्यम् । युधि बातिभये गृह्यतेऽमोघमस्खं यथा तथेह ।। ३०१६॥ मुक्त्वापि द्वादशाङ्गी मरणादिभयेषु क्रियते यस्मात् । अर्हनमस्कारस्तस्मात् स द्वादशानार्थः ॥ ३०१७॥ सर्वामपि द्वादशाङ्गीं परिणामविशुद्धिहेतुमात्रकाम् । तत्कारणभावात् कथं न तदर्थों नमस्कारः ॥ ३०१८॥ न खलु तस्मिन् देशकाले शक्यो द्वादश विधः श्रुतस्कन्धः । सबॉऽनुचिन्तयितुमत्यर्थमपि समर्थचिन्तेन ॥ ॥ ३.१९ ॥ ३ ज. 'व्यो य विचिं'। ॥११७८॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202