Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 188
________________ विशेषा० ॥११८६ ।। Jain Education International जैस्स पुण थोत्रमाउं हवेज्ज सेसं तयं च बहुतरयं । तं तेण समीकुरुए गंतूण जिणो समुग्धायं ॥ ३०४३ ॥ द्वेग | नवरं 'तेण त्ति' तत् शेषकर्मत्रिकमपवर्तनातः खण्डयित्वा तेनायुष्केण समं कुरुत इति ॥। ३०४२ ।। ३०४३ ।। नन्वेवं कृतनाशादिदोष उक्तः स कथं परिहर्तव्यः १ इत्याह नासा इविधाओ कओ पुरा जह य नाण - किरियाहिं । कम्मस्स कीरइ खओ न चेदमोक्खादओ दोसा ॥ ३०४४॥ कृतनाशादिदोषाणां विघातः परिहारः कृतोऽस्माभिः । क्व ? पुरा पूर्वमुपक्रमकालविचारे, 'नै हि दीहकालियम्स विनासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥ १ ॥ इत्यादिना ग्रन्थेन । यथा च ज्ञान-क्रियाभ्यां चिरकालस्थितिकस्यापि कर्मणः क्षिप्रमेव क्षयः क्रियते, तथा प्रागपि 'सैज्झमुनक्का मिज्जइ एत्तो च्चिय सज्झरोगो व्व' इत्यादिनाऽनेकशः प्रोक्तम् । न चेदुपक्रम इष्यते, तर्ह्यमोक्षादयो दोषा इत्यपि 'जैइ तानुभूइड च्चिय खज्जिए कम्ममन्ना न मयं' इत्यादिना प्रागुक्तमेत्र । तदेवमेतावता 'नाऊण वेयणिज्जं' इत्यादिनियुक्तिगाथा व्याख्यातेति ॥ ३०४४ ॥ अथ परप्रेर्यमाशङ्कय परिहरन्नाह- असमट्ठिईण निअम को थोत्रं आउयं न सेसं ति । परिणामसभावाओ अडुवबंधी व्व तस्सेव ॥ ३०४५ || 'असमस्थितिकानां कर्मणां स्तोकमायुरेव न शेषं वेदनीयादिकम् ' इति कोऽयं नियमः, येनोच्यते- 'नाऊण वेयणिज्जं अइबहुयं आउगंच थोवागं' इति । इदमपि कस्माद् नोच्यते- 'नाऊणं आउयं खलु अइबहुयं थोवयं च वेयणियं' इति १ । अत्रोच्यते- बन्धपरिणामस्वाभाव्यात्; एवंभूतो ह्यायुषः कोऽपि बन्धपरिणामो वर्तते, येन पर्यन्ते वेदनीयाद्यपेक्षया समं स्तोकं वा भवति, न त्वधिकमिति । अत्र दृष्टान्तमाह-यथा बन्धपरिणामस्वाभाव्यादध्रुवबन्धस्तस्यैवायुषो भवति, अन्तर्मुहूर्तमात्रबन्धकालत्वात् ; न तु वेदनीयादेः, तस्य ध्रुवबन्धित्वात् एवमत्रापि स्तोकत्वमायुष एव, न तु वेदनीयादेरिति ॥ ३०४५ ॥ १ यस्य पुनः स्तोकमायुर्भवेत् शेषं तच्च बहुतरकम् । तत् तेन समीकुरुते गत्वा जिनः समुद्धातम् ॥ ३०४३ ॥ २ कृतनाशादिविघातः कृतः पुरा यथा च ज्ञान-क्रियाभ्याम् । कर्मणः क्रियते क्षया न चेदमोक्षादयो दोषाः ॥ ३०४४ ॥ ३ गाथा २०४८ ४ गाथा २०५६ । ५ गाथा २०५२ । ६ गाथा ३०३० । ७ असमस्थितीन नियमः कः स्तोकमायुष्कं न शेषमिति । परिणामस्वभावादभुवबन्ध इव तस्यैव ॥ ३०४५ ॥ For Personal and Private Use Onty बृहद्वत्तिः । ६।। ११८६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202