Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११८९ ॥
Jain Educationa International
आवजमुवओगो वावारो वा तदत्थमाईए। अंतोमुहुत्तमेतं काउं कुरुए समुग्धायं ॥ २०५१ ॥
व्याख्या - तत्रायुः शेषाणामधिकस्थितिकानां वेदनीयादिकर्मणां समुद्धातनं समुद्धातः । तं च गन्तुमनाः प्रारिप्सुः पूर्वमावर्जीकरणमभ्येति विदधाति । कथंभूतं तत् ? इति । उच्यते तदर्थ समुद्वातकरणार्थमादौ केवलिन उपयोगो 'मयाsधुनेदं कर्तव्यम्' इत्येवंरूपः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवर्जनमुच्यते । तथाभूतस्य करणमावर्जीकरणं तदन्तर्मुहूर्तमात्रं कालं कृत्वा ततः समुद्वातं कुरुत इति ।। ३०५० ।। ३०५१ ॥
कथंभूतं तदित्याशङ्क्य "दंड कवाडे' इत्यादिगाथां व्याचिख्यासुराह—
उढाहाययलोगंतगामिणं सो सदेहविक्खभं । पढमसमयम्मि दंडं करेइ बिइयम्मि य कवाडं ||३०५२|| तइयसमयम्मि मंथं चउत्थए लोगपूरणं कुणइ । पडिलोमं साहरणं काउं तो होइ देहत्थो || ३०५३ ॥ व्याख्या - ऊर्ध्वमधश्वायतं दीर्घमुभयतोऽपि लोकान्तगामिनं स्वदेहप्रमाणविष्कम्भ केवळी केवलज्ञानाभोगतः प्रथमसमये जीवप्रदेशसंघातात्मकं दण्डं करोति । द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वय प्रसारणादुभयपार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति । तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणेन मन्यसदृशत्वाल्लोकान्तप्राप्तमेव मन्थानं करोति । एवं च लोकस्य प्रायो बहु पूरितं भवति मन्थान्तराणि त्वपूरितानि तिष्ठन्ति, जीव-पुद्गलयोरनुश्रेणि गमनात् । ततश्चतुर्थसमये तान्यपि मन्थान्तराणि सह निष्कुटैः पूरयति । ततथ सकललोकः पूरितो भवतीति । 'सांहारणा' इत्यादेव्याख्यामाह - 'पडिलोममित्यादि' इदमत्र हृदयम् - लोकपूरणानन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे समये मन्थानमुपसंहरति, घनतर संकोचात्; सप्तमसमये तु कपाटमुपसंहरति, दण्डात्मनि संकोचात् ; अष्टमे तु समये दण्डमप्युपसंहृत्य शरीरस्थ एव भवतीति ।। ३०५२ ।। ३०५३ ॥
आह- ननु समुद्धातगतस्य मनो वाक् काययोगेषु मध्ये को योगः कस्मिन् समये व्याप्रियते ? इत्याशङ्कयाह
१ आवर्जनमुपयोगो व्यापारो वा तदर्थमादौ । अन्तर्मुहूर्तमात्रं कृत्वा कुरुते समुद्धातम् ॥ ३०५ ॥ २ गाथा ३०३१ । ३ ऊर्ध्वाधआयतलोकान्तगामिनं स स्वदेहविष्कम्भम् । प्रथमसमये दण्डं करोति द्वितीये च कपाटम् || ३०५२ ॥ तृतीयसमये मन्धानं चतुर्थके लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥ ३०५३
For Personal and Private Use Only
वृत्तिः।
।। ११८९ ।।
www.janbrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202