SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥११८९ ॥ Jain Educationa International आवजमुवओगो वावारो वा तदत्थमाईए। अंतोमुहुत्तमेतं काउं कुरुए समुग्धायं ॥ २०५१ ॥ व्याख्या - तत्रायुः शेषाणामधिकस्थितिकानां वेदनीयादिकर्मणां समुद्धातनं समुद्धातः । तं च गन्तुमनाः प्रारिप्सुः पूर्वमावर्जीकरणमभ्येति विदधाति । कथंभूतं तत् ? इति । उच्यते तदर्थ समुद्वातकरणार्थमादौ केवलिन उपयोगो 'मयाsधुनेदं कर्तव्यम्' इत्येवंरूपः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवर्जनमुच्यते । तथाभूतस्य करणमावर्जीकरणं तदन्तर्मुहूर्तमात्रं कालं कृत्वा ततः समुद्वातं कुरुत इति ।। ३०५० ।। ३०५१ ॥ कथंभूतं तदित्याशङ्क्य "दंड कवाडे' इत्यादिगाथां व्याचिख्यासुराह— उढाहाययलोगंतगामिणं सो सदेहविक्खभं । पढमसमयम्मि दंडं करेइ बिइयम्मि य कवाडं ||३०५२|| तइयसमयम्मि मंथं चउत्थए लोगपूरणं कुणइ । पडिलोमं साहरणं काउं तो होइ देहत्थो || ३०५३ ॥ व्याख्या - ऊर्ध्वमधश्वायतं दीर्घमुभयतोऽपि लोकान्तगामिनं स्वदेहप्रमाणविष्कम्भ केवळी केवलज्ञानाभोगतः प्रथमसमये जीवप्रदेशसंघातात्मकं दण्डं करोति । द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वय प्रसारणादुभयपार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति । तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणेन मन्यसदृशत्वाल्लोकान्तप्राप्तमेव मन्थानं करोति । एवं च लोकस्य प्रायो बहु पूरितं भवति मन्थान्तराणि त्वपूरितानि तिष्ठन्ति, जीव-पुद्गलयोरनुश्रेणि गमनात् । ततश्चतुर्थसमये तान्यपि मन्थान्तराणि सह निष्कुटैः पूरयति । ततथ सकललोकः पूरितो भवतीति । 'सांहारणा' इत्यादेव्याख्यामाह - 'पडिलोममित्यादि' इदमत्र हृदयम् - लोकपूरणानन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे समये मन्थानमुपसंहरति, घनतर संकोचात्; सप्तमसमये तु कपाटमुपसंहरति, दण्डात्मनि संकोचात् ; अष्टमे तु समये दण्डमप्युपसंहृत्य शरीरस्थ एव भवतीति ।। ३०५२ ।। ३०५३ ॥ आह- ननु समुद्धातगतस्य मनो वाक् काययोगेषु मध्ये को योगः कस्मिन् समये व्याप्रियते ? इत्याशङ्कयाह १ आवर्जनमुपयोगो व्यापारो वा तदर्थमादौ । अन्तर्मुहूर्तमात्रं कृत्वा कुरुते समुद्धातम् ॥ ३०५ ॥ २ गाथा ३०३१ । ३ ऊर्ध्वाधआयतलोकान्तगामिनं स स्वदेहविष्कम्भम् । प्रथमसमये दण्डं करोति द्वितीये च कपाटम् || ३०५२ ॥ तृतीयसमये मन्धानं चतुर्थके लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥ ३०५३ For Personal and Private Use Only वृत्तिः। ।। ११८९ ।। www.janbrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy