Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 187
________________ विशेषा बृहद्वत्तिः । ॥११८५॥ पृष्टे मूरिराह- 'समयं ति त्ति' समकं युगपत् तस्य तत् कर्मचतुष्क क्षयमेति न तु क्रमश इति । एवं च मूरिणोत्तरे कृते पुनरपि भाषते परः-कुतः कर्मचतुष्कस्य तुल्यस्थितिनियमः, विषमनिवन्धनत्वेन विषमस्थितिकत्वस्यैव युज्यमानत्वात् ? इति ॥ ३०३९ ।। ___ अथ विषमस्थितिकमपि समकं क्षपयति । तदयुक्तम् । कुतः? इत्याहकह व अपुन्नइियं खवेउ कत्तो व तस्समीकरणं । कयनासाइभयाउ तो तस्स कमक्खओ जुत्तो॥३०४०॥ कथं वा स मुमुक्षुरपूर्णस्थितिकमायुष्कापेक्षया दीर्घस्थितिकं वेदनीय-नाम-गोत्रकर्मत्रयं इस्वस्थितिकायुष्कानुरोधेन क्षपयतु इस्वीकरोतु, कृतनाशप्रसङ्गात् । कृतनाशश्चैवमेवाधिकस्य खण्डयित्वा नाशनात् । अथायुष्कं वृद्धिमुपनीय वेदनीयादिभिः सह समस्थितिकं कृत्वा समकमेव क्षपयतीत्याशङ्कयाह- 'कत्तो वेत्यादि' कुतो वाऽऽयुष्कस्य वेदनीयादिभिः सह समीकरणं समस्थितिकत्वापादनम् , अकृताभ्यागमप्रसङ्गात् । तत्प्रसङ्गश्च इ स्वस्यायुषो दीर्घत्वापादनात् । ततस्तस्य मुमुक्षोर्वेदनीयादिकर्मणां क्रमक्षय एव युक्तः प्रथममायुषस्ततः शेषाणामिति ।। ३०४० ॥ अत्र गुरुरुत्तरमाहभेण्णइ कम्मखयम्मी जयाउमाईए तस्स निटेजा। तो कहमत्थउ स भवे सिज्झउ व कह सकम्मंसो ?॥३०४१॥ भण्यतेऽत्रोत्तरम् - कर्मक्षये मुक्तिगमनसमयवर्तिनि कर्मक्षयकाले, पाठान्तरतः क्रमक्षये वा यद्यायुरादावेव तस्य निस्तिष्ठेतनिष्ठा यायात् , क्षीयतेत्यर्थः, शेषाणि तु क्रमशः पश्चात् । ततः कथमसौ क्षीणायुष्कः शेषकर्मक्षपणार्थं भवे तिष्ठतु, तदवस्थाननिबन्धनस्यायुष्कस्याभावात् ।। अथ तदभावात् सिध्यत्वसौ, कि निवार्यते । तदयुक्तम् , यत आयुषि क्षीणेऽपि सह वेदनीयादिकौशैवर्तत इति सकर्माशः कथं सिध्यतु, 'सकलकर्मक्षयादेव मोक्षः' इति वचनात् ? इति ॥ ३०४१ ॥ तर्हि किमत्र युक्तम् ? इत्याह-- तैम्हा तुल्लठिइयं कम्मचउक्कं सभावओ जस्स । सोऽकयसमुग्धाओ सिज्झइ जुगवं खवेऊणं ॥३०४२॥ KELECREE १ कथं वाऽपूर्णस्थितिक क्षपयतु कुतो वा तत्समीकरणम् । कृतनाशादिभयात् ततस्तस्य क्रमक्षयो युक्तः ॥ ३०४० ॥ २ भण्यते कमक्षये यद्यायुरादावेव तस्य निम्तिष्ठेत् । ततः कथं तिष्ठतु स भवे सिध्यतु वा कथं सकमांशः! ॥ ३०४१॥ ३ तस्मात तुल्यस्थितिकं कर्मचतुष्कं स्वभावतो यस्य । सोऽकृतसमुद्रातः सिध्यति युगपत् क्षपयित्वा ॥ ३०४२॥ ॥११८५।। Jan Education International For Personal and Price Use Only

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202