Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥ ११८१ ॥
Jain Education International
शेषानेकादशसिद्धभेदानाह
कम्मे सिप्पे विज्जाए मंते जोगे य आगमे । अत्थ-जत्ता - अभिप्पा तवे कम्मक्खए इय || ३०२८ ॥ कर्मसिद्ध शिल्पसिद्ध, विद्यासिद्धः, मन्त्रसिद्धः योगसिद्ध:, आगमसिद्धः, अर्थसिद्धः, यात्रासिद्धः, अभिप्रायो बुद्धिपर्यायस्तो बुद्धिसिद्धः, तपःसिद्धः, कर्मक्षयसिद्धः ॥ इति नियुक्तिश्लोकसमासार्थः ॥ ३०२८ ।।
एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्पं जमणाईओ' इत्यादिकाः 'न किलम्मइ जो तबसा' इतिगाथापर्यन्ता एकचत्वारिंशद् गाथाः सकथानकभावार्था मूलावश्यकटी कातोऽवसेया इति ॥
अथ कर्मक्षय सिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाह -
दीहकालरयं जं-तु-कम्मं से-सियमहा । सियं धंतं ति सिद्धस्स सिद्धत्तमुवजाय || ३०२९ ॥
व्याख्या - दीर्घः संतानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद् दीर्घकालम्, निसर्गनिर्मलजीवस्यानुरञ्जनाद मालिन्यापादनाद् रजः, अथवा, स्नेहेन बन्धनयोग्यं भवतीति साम्याद् रजः, सूक्ष्मत्वसाम्याद् वा रज इति कर्मण एव विशेषणम्, दीर्घकालं च तद् रजश्चेति दीर्घकालरजः; 'जं तु कम्मं ति' दीर्घकालरजोरूपं यत् कर्म दीर्घकालस्थितिकं रजोरूपं यत् कर्मेत्यर्थः एतच्चैवंविधं कर्म, तुशब्दस्य विशेषणार्थत्वादत्र भव्यस्य संबन्धि गृह्यते, नाभव्यस्य तस्य वक्ष्यमाणध्यातत्वायोगात् । अथवा, भव्य संबन्धित्वमिह कर्मणो मातत्वसामर्थ्यादेव लभ्यते । यच्छन्दोऽपि साक्षादुपात्ते कर्मणि न तथाविधं साफल्यमनुभवति अतः 'जंतुकम्मं' इत्येतदन्यथा व्याख्यायते जन्तुर्जीवस्तस्य कर्म जन्तुकर्म । अनेनावद्धकर्मव्यवच्छेदमाह- बद्धं यत् कर्मेत्यर्थः । कथंभूतं यत् कर्म जन्तुकर्म वा ? इत्याह- 'से सियमह त्ति' ज्ञानावरणाद्यष्टप्रकारैः पूर्व 'से' तस्य सितं बद्धमित्यर्थः । अथवा, 'से सियं ति' अनाभोग निर्वर्तितयथाप्रवृत्त करणेन सम्यग्ज्ञानाद्युपायतश्च क्रमेण शेषितं शेषं कृतं स्थित्यनुभवादिभिरल्पीकृतमित्यर्थः । तद् दीर्घकालस्थितिकं रजोरूपं भव्यस्य संबन्धि यत्कर्म जन्तुकर्म वा पूर्वमष्टधा बद्धं तत् क्रमेण शेषितं सत् किम् ? इत्याह- 'सियं धतं ति त्ति' सितमित्थं बद्धं ध्मातं तीव्रध्यानानलेन दग्धं क्षपितं महाग्निना लोहमलवदस्येति सिद्ध इति निरुक्तिः । एवं च कर्मदहना
१ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थ-यात्रा ऽभिप्रायेषु तपसि कर्मक्षय इति । ३०२८ ॥ २ दीर्घकालरजो यत्तु कर्म तस्य सितमष्टधा । सितं ध्मातमिति सिद्धस्य सिद्धत्वमुपजायते ॥ ३०२९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥११८१ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202