Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहदत्तिः ।
॥११८२॥
नन्तरं सिद्धस्यैव सतः सिद्धत्वमुपजायते नासिद्धस्य, 'नेरइएसु उववजई' इत्यादिनिश्चयनयमताश्रयणादिति । उपजायत इति तदात्मनः स्वाभाविकं सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव, न पुनरसदुपजायत इति प्रतिपत्तव्यम् , असतः खरविषाण- स्येव जन्मायोगादिति । अथवा सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति । एवं नयमतान्तरव्यवच्छेदार्थमेतत् । तथा चाहुरेके
"दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥
जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित स्नेहक्षयात् केवलमेति शान्तिम् ॥२॥" इत्यादि । एवंविधासद्धाभ्युपगमे दीक्षादिप्रयासवैयात् : निरन्वयक्षणभङ्गस्य चाघटमानत्वादिति ।
अथवा 'दीहकालरयं ति' एतदन्यथा व्याख्यायते- रयो वेगश्चेष्टाविशेषः, फलम् , अनुभव इत्यनर्थान्तरम् । ततश्च संतानेनानुभूयमानत्वाद् दीर्घकालोऽनुभवो यस्य तद् दीर्घकालरयं यद् भव्यकर्म जन्तुकर्म वा । तथा 'सेसियं ति' एतदप्यन्यथा व्याख्यायतेलेश्याविशेषाश्लेषितं वन्ययोगोलकन्यायाज्जीवेन सह संश्लेषमुपगतम् । अष्टधा सितमित्यादि तु तथैव ॥ इति नियुक्तिश्लोकसंक्षेपार्थः ।। ३०२९॥
___ आह- ननु यच्छेषितं भवोपग्राहि चतुर्विध कर्म तद् यदि पर्यन्ते समस्थितिकं भवति तदा समकालमेव क्षपयित्वा मोक्षं गच्छतीत्यर्थादवगम्यते; यदा तु विषमस्थितिकं तद् भवति तदा किं करोति ? इत्याह
नाऊण वेयणिज्जं अइबहुयं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेसं ॥३०३०॥ सम्यग्-अपुनर्भावेन, उत्- प्राबल्येन कर्मणां हननं घातः प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्धातः ॥ ३०३० ।। तत्स्वरूपमेवाह
दंड कवाडे मंथंतरे य सौहणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ ३०३१॥ नन्वेवंभूतः समुद्धातगतानां विशिष्टः कर्मक्षयोपशमो भवतीति कोत्र हेतुरिति ?। अत्रोच्यते- प्रयत्नावशेषः । किं पुनरत्र
१ज्ञात्वा वेदनीयमतिबहुकमायुष्कं च स्तोकम् । गत्वा समुद्रातं क्षपयति कर्म निरवशेषम् ॥ ३०३०॥ २ दण्डे कपाटे मंधाम्सरे च साधनया शरीरस्थे । भाषायोगनिरोध शैलेशी सेधना चैव ॥ ३३॥ । क. ग. घ. 'साहारणा स' ।
S
॥११८२॥
esicles
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202