________________
विशेषा.
बृहद्वृत्तिः ।
॥११६३॥
पार्थः ॥ २९६०॥
विस्तरार्थमभिधित्सुस्तावद् रागस्वरूपं विकृणोति
रजति तेण तम्मि व रंजणमहवा निरूविओ राओ। नामाइ चउब्भेओ दवे कम्मेयरविभिण्णो ॥२९६१॥
रज्यन्ते तेन, तस्मिन् वा सति क्लिष्टसत्त्वाः प्राणिनः स्त्र्यादिष्विति रागः। अथवा, रञ्जनं रागः । स च नामादिचतुर्भेदः स्थानान्तरे निरूपितो रागः । तत्र नाम-स्थापना-ज्ञशरीरभव्यशरीरद्रव्यरागविचारः सुज्ञेय एव । ज्ञ-भव्यशरीरव्यतिरिक्त तु द्रव्ये विचार्य को रागः? इत्याह- 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यरागः, नोकर्मद्रव्यरागश्चेत्यर्थः ॥ २९६१ ।।
तत्र 'कर्मद्रव्यरागं व्याचिख्यासुराह--
जुग्गा बडा बझंतया य पत्ता उईरणावलियं । अह कम्मदव्वराओ चउब्विहा पोग्गला हंति ॥२९६२॥
'अह त्ति' अर्थतद्व्याख्यानमुच्यते- तत्र कर्मद्रव्यरागचतुर्विधाः पुद्गला भवन्ति; तद्यथा- योग्या बन्धपरिणामाभिमुखाः, बध्यमानाः प्रारब्धवन्धक्रियाः, बद्धा उपरतवन्धक्रियाः । गाथावधानुलोम्याच व्यत्ययेनोपन्यासः । तथा, उदीरणाकरणेनाकृष्यादीरणावलिकां प्राप्ता यावदद्याप्युदयं न गच्छन्ति, उदयेन वेद्यमानानां भावरागत्वेन वक्ष्यमाणत्वादिति ॥ २९६२ ॥
नोकर्मद्रव्यरागमाह
नोकम्मदव्वराओ पओगओ सो कुसुंभरागाई । बीओ य वीससाए नेओ संझब्भरागाई ॥ २९६३ ॥ नोकर्मद्रव्यरागस्तु द्विविधः-प्रयोगतः, विस्रसातश्च । तत्र प्रयोगतः कुसुम्भरागादिः, विरसातस्तु सन्ध्याभ्ररागादिरिति।।२९६३॥ भावरागमाह
जं रायवेयणिज्ज समुइण्णं भावओ तओ राओ । सो दिद्वि-विसय-नेहाणुरायरूवो अभिरसंगो ॥२९६४॥
१ रज्यन्ते तेन तस्मिन् वा रजनमधवा निरूपितो रागः । नामादिश्चतुर्भदो द्रव्ये कर्मतरविभिन्नः ॥ २९६१ ॥ २ योग्या बद्धा बध्यमानाश्च प्राप्ता उदारणावलिकाम् । अथ कर्मद्रव्यरागश्चतुर्विधाः पुद्गला भवन्ति ॥ २९६२ ॥ ३ नोकर्मद्रव्यरागः प्रयोगतः स कुसुम्भरागादिः । द्वितीयश्च विखसातो ज्ञेयः सम्यारागादिः ॥ २९६३ ॥ ५ यद् रागवेदनीयं समुदीर्ण भावतः सको रागः । स दृष्टि-विषय-स्नेहा-ऽनुरागरूपोऽभिष्वङ्गः ॥ २९६४।।
११६३॥
Jan E
in
For Personal and
Use Only