________________
विशेषा.
हावा
॥११६४॥
कुप्पवयणेसु पढमो बिइओ सहाइएसु विसएसु। विसयादनिमित्तो वि हु सिणेहराओ सुयाईसु ॥२९६५॥
यद् रागेण वेद्यत इति रागवेदनीयं माया-लोभलक्षणं कर्म समुदीर्णमुदयप्राप्तं विपाकेन वेद्यते, तज्जनितश्च जीवपरिणामरूपोऽभिष्वङ्गस्तकोऽसौ भावतो रागो भावरागः । स च त्रिविधाभिष्वङ्गरूपः, तद्यथा- दृष्टयनुरागः विषयानुरागः, स्नेहानुरागश्चेति । तत्र प्रथमः कुप्रवचनेषु द्रष्टव्यः, द्वितीयस्तु शब्दादिविषयेषु, स्नेहरागस्तु विषयानिमित्तोऽविनीतेष्वपि सुत-बान्धवादि. विति ॥ २९६४ ॥ २९६५ ।।
अथ दोषस्य द्वेषस्य वा व्याख्यानमाह
संति तेण तम्मि व दूसणमह देसणं व देसो ति । देसो च सो चउद्धा दव्वे कम्मेयरविभिन्नो॥२९६६॥ 'दुष वैकृत्ये' दुष्यन्ति विकृतिं भजन्ति' तेन तस्मिन् वा पाणिन इति दोषः । दूषणं वा 'दोषः' इति स्वयमेव द्रष्टव्यम् । अथवा, 'द्विष अपीती' द्विषन्ति- अप्रीतिं भजन्ति तेन तस्मिन् वा प्राणिन इति द्वेषः । द्वेषणं वा 'द्वेषः' इत्यपि स्वयमेव दृश्यम् । कुतः पुनरिदं दृश्यत इत्याह- 'अह देसणं व देसो त्ति' अथवा द्वेषणं द्वेष इति भावसाधनपक्षोपन्यासादनन्तरोक्तः स्वयमेव दृश्यते । 'देसो व सो चउद्ध त्ति' स च द्वेषः, वाशब्दाद् दोषो वा नामादिभंदाच्चतुर्धा द्रष्टव्यः । तत्र ज्ञ भव्यशरीरव्यतिरिक्त द्रव्ये विचार्ये 'कम्मेयरविभिन्नो त्ति' कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषश्च भवतीत्यर्थः ॥ २९६६ ॥
अस्य च द्विविधस्यापि स्वरूपमाह--
जुग्गा बद्धा बझंतगा य पत्ता उदीरणावलियं । अह कम्मदव्वदोसो इयरो दुहव्वणाईओ ॥ २९६७ ॥ पूर्ववच्चतुर्विधाः पुद्गलाः कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषस्तु दुष्टत्रणादिरिति ॥ २९६७ ॥ भावदोषं भावद्वेषं वा पाह--
॥११६४॥
कुप्रवचनेषु प्रथमो द्वितीयः शब्दादिकेषु विषयेषु । विषयाद्यनिमित्तोऽपि खलु स्नेहरागः सुतादिषु ॥ २९६५॥ २ दुष्यन्ति तेम तस्मिन् वा दूषणमथ द्वेषणं वा द्वेष इति । द्वेपश्च स चतुधी द्रव्य कर्मतरविभिन्नः ॥ २९५६ ॥ ३ योग्या वद्धा वध्यमानाश्च प्राप्ता उदीरणावलिकाम् । अथ कर्मद्रव्यदोष इतरी दुष्टत्रणादिकः ॥ २९६७ ॥
।
Police
For Personal and
Use Only