Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११६८॥
केम्मं कस भवो वा कसमाओ सिं जओ कसाया तो । कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥ २९७८ ॥
आउ व उवायाणं तेण कसाया जओ कसरसाया। जीवपरिणामरूवा जेण उ नामाइनियमो ऽयं ॥ २९७९॥ व्याख्या- 'कष शिष' इत्यादिहिंसार्थो दण्डकधातुः कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कर्षं कर्म भवो वा तदायो लाभ एषां यतस्ततः कषायाः क्रोधादयः । अथवा, यथोक्तं कषमयधातोरिनन्तस्याययन्ति गमयन्ति प्रापयन्ति यतस्ततः कषाया इति । अथवा, आय उपादानं हेतुः, पूर्वोक्तस्य कषस्याया उपादानहेतवो यस्मात् ततः कषायाः, ते तु जीवपरिणामरूपाः क्रोधादयस्तेषां च कषायाणां सामान्येन येन यस्माद् नामादिकोऽष्टविधत्वनियमोऽयमन्यत्र प्रसिद्धस्तेनासौ 'उच्यते' इति शेषः ।। २९७८ ।। २९७९ ।।
Jain Education International
कः ? इत्याह-
नाठवणा दविए उपपत्ती पच्चए य आएसे । रस-भाव कसाए वि य परूपणा तेसिमा होइ ॥ २९८० ॥ अत्र नाम-स्थापने क्षुण्णे । द्रव्यकषायविचारोऽपि सुकरः, नवरं ज्ञ भव्यशरीरव्यतिरिक्तद्रव्यकषायमाह-
विहो दव्वकसाओ कम्मदव्वे य नो य कम्मम्मि । कम्मद्दव्वकसाओ चउव्विहा पोग्गलाणुइया ॥ २९८१ ॥ ज्ञ भव्यशरीरव्यतिरिक्तो द्विविधो द्रव्यकषायः- कर्मद्रव्यकषायः, नोकर्मद्रव्यकषायश्च । तत्र कर्मद्रव्यकषायः 'जुग्गा बद्धा बसंतगा य' इत्यादिना प्रागुक्ता अनुदिताश्चतुर्विधाः पुद्गला ज्ञातव्याः ।। २९८१ ॥
नोकर्मद्रव्य कषायमुत्पत्तिकषायं चाह-
सेज्जकसायाइओ नोकम्मदव्वओ कसाओऽयं । खेत्ताइ सम्मुप्पत्ती जत्तो प्पभवो कसायाणं ॥ २९८२ ॥
१ कर्म कथं भवो वा कपमाय एषां यतः कषायास्ततः । कषमाययन्ति वा यतो गमयन्ति कथं कषाया इति ॥ २९७८ ॥
आयो बोपादानं तेन कषाया यतः कपस्यायाः । जीवपरिणामरूपा येन तु नामादिनियमोऽयम् ॥ २९७९ ॥
२ नाम स्थापना द्रव्ये उत्पत्तिः प्रत्ययश्चादेशः । रस-भाव-कषाया अपि च प्ररूपणा तेषामियं भवति ॥ २९८० ॥
३ द्विविधो द्रव्यकषायः कर्मद्रव्ये च नोकर्मद्रव्ये । कर्मद्रव्यकपायश्चतुर्विधाः पुद्गला अनुदिताः ॥ २९८१ ॥ ४ गाथा २९६२ ॥ ५ सर्जकषायादिको नाकमद्रव्यतः कषायोऽयम् । क्षेत्रादिः समुत्पत्तिर्यतः प्रभवः कथायाणाम् ॥ २९८२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ११६८ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202