________________
विशेषा ०
॥११६६॥
Jain Education International
ऋजुनयस्येदं मतम् - क्रोधः प्रथमकपायो द्वेषः, अमीत्यात्मकत्वात् । शेषाणां तु मान-माया लोभानां राग-द्वेषत्वविचारं प्रत्येतत् तस्य मतम् ; किम् ? इत्याह- अनेकान्तोऽनिश्चयः । एतदेव व्याचष्टे शेषे मानादिकषायत्रयवर्गे कोऽपि रागः, कोऽपि वा द्वेषः, इत्ययं परिणामवशेनैवावसेयो निश्रेयो नान्यथेति ।। २९७१ ।।
कुतः १ इत्याह-
'संपयगाहित्ति नओ न उवओगदुगमेगकालम्मि । अप्पीइ-पीइमेत्तोव ओगओ तं तहा दिसइ ॥ २९७२ ॥ यतः सांप्रतग्राही वर्तमानैक्षणवस्तुग्राही तकोऽसौ ऋजुमूत्रः । ततः क्रोध- मानौ द्वेषः, माया-लोभौ तु राग इत्येवमसौ न मन्यते, मानादिक्षणकाले क्रोधादिक्षणाभावात् तदभावश्च तयोः क्रमभावित्वात् प्राक्तनस्य चोत्पश्यनन्तरमेव विनाशादिति । स एव च मानो द्वेषो भवति, कदा ? परगुणेषु यो द्वेषोऽमीतिस्तदुपयोगे तदध्यवसाय परिणतिकाल इत्यर्थः । अस्तु वा, क्रोध मानादीनां समकालभाविता, तथाप्युपयोगद्वयमसावेककालं न मन्यत इति कथं मिश्रकषायद्वयोपयोगाद् द्वेषो रागो वा स्यात् ? । एतदेवाह - 'न उवओगदुगमेगकालम्पि त्ति' न च कषायद्वयोपयोगमेककालमसौ मन्यते येन क्रोध मानौ द्वेषो माया-लोभौ तु रागः स्यादिति । तर्हि किमसौ मन्यते १ इत्याह- 'अप्पीईत्यादि' अप्रीति-प्रीतिमात्रोपयोगतस्तं तं मानादिकषायं तथा तथा व्यपदिशति ॥ २९७२ ॥ एतदेव भावयति
माणो रागोति मओ साहंकारोवओगकालम्मि । सो च्चिय होइ दोसो परगुणदोसोवओगम्मि ||२९७३ ॥
माया लोभो चेवं परोवघाओवओगओ दोसो | मुच्छोवओगकाले रागोऽभिस्संगलिंगो ति ॥ २९७४ ॥ arrot- मानो राग इति ऋजुसूत्रस्य संमतः । क ? साहंकारोपयोगकाले- स्वस्मिन्नात्मनि 'अहो अहम्' 'नमो महाम्' इत्येवं योऽसावहङ्कारो निजगुणेषु बहुमानोऽभिष्वङ्गस्तदुपयोगकाले तदुपयोगसमय इत्यर्थः, एवं परोपघाताय व्याप्रियमाणौ माया-लोभौ द्वेषः, स्वशरीर स्वधन - स्वजनादिषु मूर्च्छपयोगकाले तु तावेव रागः । कुतः ? इत्याह- अभिष्वङ्गलिङ्ग इति कृत्वा । अभिष्वङ्गो हि रागः, यश्च स्वश
१ सांप्रतमाहीति नयो नोपयोगद्विकमेककाले अप्रीति प्रीतिमानोपयोगतस्तं तथा दिशति ॥ २९७२ ॥ २ मानो राग इति मतः साहंकारोपयोगकाले। स एव भवति दोषः परगुणदोषोपयोगे ॥ २९७३ ॥ माया कोभश्चैवं परोपघातोपयोगतो दोषः । मूच्छपयोगकाले रागोऽभिष्वङ्गलिङ्ग इति ।। २९७४ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
।।११६६ ।।
www.jainelibrary.org