________________
विशेषा.
॥११६७॥
रीरादिषु मूर्योपयोगः स व्यक्तोऽभिष्वङ्ग इति युक्तमस्य रागत्वमिति भावः ॥ २९७३ ।। २९७४ ।।
अथ शब्दादिनयत्रयमतमाह
सद्दाइमयं माणे मायाए चिय गुणोवगाराय । उवओगो लोभो च्चिय जओ स तत्थेव अवरुहो॥२९७५॥ सेसंसा कोहो वि य परोवघायमइय त्ति तो दोसो । तल्लक्खणोय लोभो अह मुच्छा केवलो रागो॥२९७६॥
मुच्छाणुरंजणं वा रागो संदूसणं ति तो दोसो । सदस्स व भयणेयं इयरे एक्केक्कठियपक्खा ॥ २९७७ ॥
व्याख्या-शब्दादिनयानामिदं मतम्-माने मायायां च स्वगुणोपकाराय आत्मन उपकाराय व्याप्रियमाणायां य उपयोगः स लोभ एव, यतः स स्वगुणोपकारोपयोगः स्वात्मनि मूछात्मकत्वात् तत्रैव लोभेऽवरुद्धोऽन्तर्भूतः । तथा च सति स मान-माययोः स्वगुणोपकारोपयोगः स्वात्मनि मूत्मिकत्वाल्लोभ इव राग इत्यभिप्रायः । शेषास्तु परोपघातोपयोगरूपा मान-माययोरंशाः, क्रोधश्च सर्वः, एते सर्वे परोपघातमयास्ततो द्वेष इति मन्तव्याः। न केवलमेते तथा लोभोऽपि द्वेषः। किं सर्वः । नेत्याह- यतस्तल्लक्षणःपरोपघातोपयोगरूपः । अथ परानुपघातोपयोगरूपो मूर्योपयोगात्मको लोभः पृच्छ्यते तत्राह- केवलो राग एवासाविति । अयवा, किं बहुनोक्तेन ?, संक्षिप्य ब्रूमः । किम् ? इत्याह-'मुच्छेत्यादि' इह सर्वेष्वपि क्रोधव्यतिरिक्तेषु मान-माया लोभकपायेषु यद् मूर्छात्मकमनुरञ्जनं यः कश्चिद् मूछोपयोग इत्यर्थः स रागो मन्तव्यः । अथ संदूषणमप्रीत्युपयोगस्त तोऽसौ द्वेषो ज्ञातव्यः । शब्दनयस्येयं भजना विकल्पना । वाशब्दाजुसूत्रस्य च । शेषौ तु संग्रह-व्यवहारनयो, नैगमस्यानयोरेवान्तर्भावात् , एकै कस्थितपक्षौ- एकैकः स्थितो नियमितः पक्षो ययोस्तावेककस्थितपक्षी; तथाहि-संग्रहनयः क्रोध-मानौ द्वेषमेवेच्छति, माया लोभौ तु रागम् । व्यबहारनयोऽपि लोभं रागमेव मन्यते, शेषकषायत्रयं तु द्वेषमेवेति । अतः शब्दादिनया भजनाभ्युपगमपरत्वादेकैकस्थितपक्षवादिभ्यां ताभ्यां भिन्ना इति ।। तदेवं व्याख्यातौ राग-द्वेषौ ॥ २९७५।२९७६॥२९७७ ॥ अथ कषायान् व्याचिख्यासुराह
शब्दादिमतं माने मायायामेव गुणोपकाराय । उपयोगो लोभ एवं यतः स तत्रैवावरुद्धः ॥ २९७५ ॥ कोषांशाः क्रोधोऽपि च परोपघातमय इति ततो दोषः । तल्लक्षणश्च लोभोऽथ मूळ केवलो रागः ॥ २९७६ ॥
R॥११६७॥ मूर्धानुरजनं वा रागः संदूषणमिति ततो दोषः । शब्दस्य बा भजनेयमितर एवैकस्थितपक्षी ॥ २९७७ ॥
Kailalalalaie
For Posol
s en