Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥११४२॥
पूजकजीवस्य ते तमिच्छन्ति ॥ इति त्रिंशद्दाथार्थः ॥ गतं 'कस्य' इति प्ररूपणाद्वारम् ॥ २८९२ ॥ ___ अथ 'केन' इति द्वारमाह
बृहद्वत्तिः । नाणावरणिज्जस्स य दसणमोहस्स जो खओवसमो। जीवमजीवे अठ्ठसु भंगेसु य होइ सव्वत्थ ॥२८९३॥
'ज्ञानावरणीयस्य' इत्यनेन मति-श्रुतज्ञानावरणद्वयं गृह्यते, नमस्कारस्य मति श्रुतज्ञानान्तर्गतत्वात् । ज्ञानस्य च सम्यक्त्वसहचरितत्वाद् दर्शनमोहनीयमप्याक्षिप्यते । ततो मति-श्रुतज्ञानावरणद्वयस्य दर्शनमोहनीयस्य च कर्मणो यः क्षयोपशमः 'तेन हेतुभूतेन नमस्कारो लभ्यते' इत्यध्याहारः । तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति- सर्वोपघातीनि, देशोपघातीनि च । तत्र सर्वेषु सवेघातिषु हतेषु देशोपघातिनां च प्रतिसमयमनन्तै गैर्विमुच्यमानः क्रमेण नमस्कारस्य प्रथमं नमस्कारलक्षणमक्षरं लभते । एवमैकैकवर्णमाप्त्या समस्तनमस्कारं प्रामोतीति । गतं 'केन' इति द्वारम् ॥
अथ 'कस्मिन्' इति द्वारमभिधित्सुराह- 'जीवमजीवे इत्यादि' मकारोऽलाक्षणिकः । नमस्कारस्य जीवगुणत्वाज्जीवः, ततो नमस्कारवान् जीवो यदा गजेन्द्रादौ जीवेऽधिकरणे वर्तते तदा जीवे नमस्कारोऽभिधीयते, यदा तु कटाद्यजीवे तदाऽजीवेऽसौ व्यपदिश्यते । यदा तु जीवा-जीवोभयात्मके वस्तुनि तदा जीवा-5जीवयोः। इत्येक-बहुवचनाभ्यां प्रागुक्तेष्वष्टसु भङ्गेषु सर्वत्रायं भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २८९३ ॥
विस्तरार्थ त्वभिधित्सुर्भाष्यकारः प्राहकेणं ति नमोक्कारोसाहिज्जइ लब्भए व भणियम्मि । कम्मक्खओवसमओ किं कम्म को खओवसमो? ॥२८९४॥
केन हेतुना नमस्कारः साध्यते, लभ्यते वा ? इति भणिते गुरुराह- कर्मक्षयोपशमतोऽसौ लभ्यते । विनेयः प्राह- किं तत् कश्च क्षयोपशमः ? इति ॥ २८९४ ॥ ___ तत्र कर्म तावदाहज्ञानावरणीयस्य च दर्शनमोहस्य यः क्षयोपशमः । जीवेऽजीवेऽष्टसु भनेषु च भवति सर्वत्र ॥ २८९३ ॥
E0११४२॥ २ केनेति नमस्कारः साध्यते लभ्यते वा भणिते । कर्मक्षयोपशमतः किं कर्म कः क्षयोपामः ॥ २८९४ ॥
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202