Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 157
________________ परिणामयुक्तस्य सम्यग्दृष्टिजीवस्य देश एकदेशो भण्यते । सर्वनिषेधवचने तु नोशब्दे स नीनमस्कारः पुनरप्यनमस्कार एवं गम्यत विशेषा. इति ॥ २९३६ ॥ बृहद्वत्तिः । नोअनमस्कारः कः ? इत्याह-- नोअनमोक्कारो पुण दुनिसेहपगइगमयभावाओ। होइ नमोक्कारो चिय, देसनिसेहम्मि तद्देसो ॥२९३७॥ नोअनमस्कारः पुनःशब्दस्य सर्वनिषेधपक्षे नमस्कार एव भवति, योनिषेधयोः प्रकृतिगमकभावात् "द्वौ नौ प्रकृत्यर्थ गमयतः" इति न्यायादित्यर्थः । देशनिषेधवचने तु नोशब्दे तस्य पूर्वोक्तस्वरूपस्य नमस्कारस्यैकदेशः प्रतीयत इति ॥ २९३७ ॥ इह च 'नमस्कारः' 'अनमस्कारः' इत्यादिभङ्गचतुष्टये यदुषचरितं यच्च वास्तवम् , तद् निर्धारयन्नाह-- उवयारदेसणाओ देस पएस त्ति नोनमोकारो । नोअनमोक्कारो वा पयइनिसेहाउ सब्भूया ॥ २९३८ ॥ 'देस पएस त्ति' इह यथासंख्येन संबन्धः । तृतीयभङ्गे यो देशो नमस्कारैकदेशो 'नोनमोकारो त्ति' नोनमस्कार उक्तः, यश्च चतुर्थभने प्रदेशोऽनमस्कारैकदेशो 'नोअनमोकारो त्ति' नोअनमस्कार उक्तः, स उपचारदेशनादिति संबन्धः । औपचारिकत्वं चेह नोनमस्काररूपस्य नोअनमस्काररूपस्य च देशप्रतिषेधवचने नोशब्दे संपूर्णस्य वस्तुनोऽभावादिति । अथ सद्भूतभङ्गकपतिकि पादनार्थमाह- 'पयईत्यादि' प्रकृतिः प्रथमो भङ्गः, निषेधस्तु द्वितीयभङ्गः, एवौ द्वावपि सद्भूतो निरुपचरिती, एतद्भङ्गवाच्यस्य नमस्का रानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति । तुशब्दादुपरिमावपि द्वौ भङ्गौ सर्वनिषेधवचने नोशब्दे सति सद्भूताविति द्रष्टव्यम् , तद्वाच्यस्यापि नमस्कारानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति ॥ २९३८ ।। अर्थतांश्चतुरो भङ्गान् नयैर्निरूपयन्नाह-- सव्वो वि नमोक्कारो अनमोक्कारो यवंजणनयस्स । होउं चउरूवो वि हु सेसाणं सव्वभेया वि ॥२९३९॥ इह शब्दनयास्त्रयोऽपि शुद्धत्वादखण्डं संपूर्ण देश-प्रदेशरहितमेव वस्त्विच्छन्ति । शेषास्तु नैगमादयोऽविशुद्धत्वाद् देश-प्रदेश . नोअनमस्कारः पुनर्दिनिषेधप्रकृतिगमकभावात् । भवति नमस्कार एव देशनिषेधे तद्देशः ॥ २१३ ॥ २ उपचारदेशनाद् देशः प्रदेश इति नोनमस्कारः । नोभनमस्कारो वा प्रकृति-निषेधौ सद्भूतौ ॥ २९३८ ॥ E११५५॥ ३ सवोऽपि नमस्कारोऽनमस्कारश्च व्यञ्जननयस्य । भूत्वा चतूरूपोऽपि खलु शेषाणां सर्वभेदा अपि ॥ २९३९॥ Jain Educationa.Intern For Personal and Price Use Only

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202