________________
परिणामयुक्तस्य सम्यग्दृष्टिजीवस्य देश एकदेशो भण्यते । सर्वनिषेधवचने तु नोशब्दे स नीनमस्कारः पुनरप्यनमस्कार एवं गम्यत विशेषा. इति ॥ २९३६ ॥
बृहद्वत्तिः । नोअनमस्कारः कः ? इत्याह--
नोअनमोक्कारो पुण दुनिसेहपगइगमयभावाओ। होइ नमोक्कारो चिय, देसनिसेहम्मि तद्देसो ॥२९३७॥
नोअनमस्कारः पुनःशब्दस्य सर्वनिषेधपक्षे नमस्कार एव भवति, योनिषेधयोः प्रकृतिगमकभावात् "द्वौ नौ प्रकृत्यर्थ गमयतः" इति न्यायादित्यर्थः । देशनिषेधवचने तु नोशब्दे तस्य पूर्वोक्तस्वरूपस्य नमस्कारस्यैकदेशः प्रतीयत इति ॥ २९३७ ॥
इह च 'नमस्कारः' 'अनमस्कारः' इत्यादिभङ्गचतुष्टये यदुषचरितं यच्च वास्तवम् , तद् निर्धारयन्नाह-- उवयारदेसणाओ देस पएस त्ति नोनमोकारो । नोअनमोक्कारो वा पयइनिसेहाउ सब्भूया ॥ २९३८ ॥
'देस पएस त्ति' इह यथासंख्येन संबन्धः । तृतीयभङ्गे यो देशो नमस्कारैकदेशो 'नोनमोकारो त्ति' नोनमस्कार उक्तः, यश्च चतुर्थभने प्रदेशोऽनमस्कारैकदेशो 'नोअनमोकारो त्ति' नोअनमस्कार उक्तः, स उपचारदेशनादिति संबन्धः । औपचारिकत्वं
चेह नोनमस्काररूपस्य नोअनमस्काररूपस्य च देशप्रतिषेधवचने नोशब्दे संपूर्णस्य वस्तुनोऽभावादिति । अथ सद्भूतभङ्गकपतिकि पादनार्थमाह- 'पयईत्यादि' प्रकृतिः प्रथमो भङ्गः, निषेधस्तु द्वितीयभङ्गः, एवौ द्वावपि सद्भूतो निरुपचरिती, एतद्भङ्गवाच्यस्य नमस्का
रानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति । तुशब्दादुपरिमावपि द्वौ भङ्गौ सर्वनिषेधवचने नोशब्दे सति सद्भूताविति द्रष्टव्यम् , तद्वाच्यस्यापि नमस्कारानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति ॥ २९३८ ।।
अर्थतांश्चतुरो भङ्गान् नयैर्निरूपयन्नाह--
सव्वो वि नमोक्कारो अनमोक्कारो यवंजणनयस्स । होउं चउरूवो वि हु सेसाणं सव्वभेया वि ॥२९३९॥ इह शब्दनयास्त्रयोऽपि शुद्धत्वादखण्डं संपूर्ण देश-प्रदेशरहितमेव वस्त्विच्छन्ति । शेषास्तु नैगमादयोऽविशुद्धत्वाद् देश-प्रदेश
. नोअनमस्कारः पुनर्दिनिषेधप्रकृतिगमकभावात् । भवति नमस्कार एव देशनिषेधे तद्देशः ॥ २१३ ॥ २ उपचारदेशनाद् देशः प्रदेश इति नोनमस्कारः । नोभनमस्कारो वा प्रकृति-निषेधौ सद्भूतौ ॥ २९३८ ॥
E११५५॥ ३ सवोऽपि नमस्कारोऽनमस्कारश्च व्यञ्जननयस्य । भूत्वा चतूरूपोऽपि खलु शेषाणां सर्वभेदा अपि ॥ २९३९॥
Jain Educationa.Intern
For Personal and Price Use Only