SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ बृहद्वात्तिः। FO नमस्कारपरिणतो जीवः स एव मतो नमस्कार एव मत इति भूयोऽवधार्यते। कुतः ? इत्याह- अनन्य इति कृत्वाऽनन्यत्वादभिन्नत्वाविशेषादित्यर्थः । इदमुक्तं भवति- यथाऽग्न्युपयुक्तो माणवकस्तदुपयोगानन्यत्वादाग्निरेव भवति तथा नमस्कारपरिणतो जीवस्तदुपयोगानन्यत्वाद् नमस्कार एव निर्यापनायां भवति । इति दापना-निर्यापनयोर्विशेष इति । तदेवमभिहिता पञ्चविधापि प्ररूपणा ॥ २९३३ ॥ ॥११५४॥ अथवा, चतुर्विधा प्ररूपणा सा । कथम् ? इत्याहपयईए अगारेण य नोगारो-भयनिसेहओ वावि । इह चिन्तिज्जइ भुज्जो को होज्ज तओ नमोक्कारो ? ॥२९३४॥ प्रकृत्या स्वभावेन, अकारेण च प्रतिषेधवाचकेन, नोकारेण, निषेधोभयेन च सहितोत्र भूयोऽपि नमस्कारश्चिन्त्यते । तत्र प्रकृतिपक्षे नमस्कारः, अकारसहितस्त्वनमस्कारः, नोकारयुक्तस्तु नोनमस्कार, निषधोभयसहितस्तु नोअनमस्कार इति । एवं च चिन्त्यमाने ततः कः किं वस्तु नमस्कारो भवेत् । उपलक्षणं चदम् , को वाऽनमस्कारः, कश्च नोनमस्कारः, को वा नोअनमस्कार इत्यपि द्रष्टव्यमिति ।। २९३४ ॥ एवं च जिज्ञासिते सति भाष्यकारः प्राहपैयइत्ति नमोक्कारोजीवो तप्परिणओस चाभिहिओ। अनमोक्कारो परिणइरहिओ तल्लडिरहिओ वा॥२९३५॥ प्रकृतिस्तावद् नमस्कारः । स च कः? इति यदि पृच्छयते, तदासौ जीवस्तत्परिणतो नमस्कारपरिणतो नमस्कार इति प्रागभिहितमेव । अनमस्कारस्तु परिणतिरहितो नमस्कारपरिणतिवर्जितोऽनुपयुक्तः सम्यग्दृष्टिः । तल्लब्धिविरहितो वा नमस्कारकारणकर्मक्षयोपशमशून्यो वा मिथ्यादृष्टिरिति ॥ २९३५॥ नोनमस्कारस्तर्हि कः ? इत्याह नोपुवो तप्परिणयदेसो देसपडिसेहपक्खम्मि । पुणरनमोक्कारो च्चिय सो सव्वनिसेहपक्खम्मि ॥ २९३६ ॥ नोपूर्वस्तु नोशब्दोपपदो नमस्कारो नोनमस्कार इत्यर्थः 'तप्परिणयदेसो त्ति' देशप्रतिषेधवचने नोशब्दे तत्परिणतस्य नमस्कार ११५४॥ , प्रकृत्याऽकारेण च नोकारो भयनिषधतो वापि । इह चिन्त्यते भूयः को भवेत् सको नमस्कारः ॥ २९३४ ॥ २ प्रकृतिरिति नमस्कारो जीवस्तत्परिणतः स चाभिहितः । अनमस्कारः परिणतिरहितस्तल्लब्धिरहितो वा ॥ २९३५ ।। नोपूर्वस्तपरिणतदेशो देशप्रतिषेधपक्षे । पुनरनमस्कार एव स सर्वनिषेधपक्षे ॥ २९३.६॥ Jan Ed a Internatio For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy