SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ PHOTOS विशेषा. ॥११५३॥ दापना-निर्यापनयोव्याख्यानमाह अह दायणा नमोक्कारपरिणओ जो तओनमोक्कारो। निज्जवणाए सो चिय जो सो जीवो नमोक्कारो॥२९३१॥बृहद्वात्तिः। अथानन्तरोक्तमनस्य निर्वचनरूपा दापनोच्यते । किं पुनस्तद् निर्वचनम् ? यो नमस्कारपारणतो जीवस्तकोऽसौ नमस्कारः, यस्तु तदपरिणतः स खल्लनमस्कार इंति निर्यापनायां स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति ।। २९३१ ॥ अथ दापना-निर्यापनयोः को विशेषः? इत्याह दायण-निज्जवणाणं को भेओ दायणा तयस्थस्स । वक्खाणं निज्जवणा पच्चब्भासो निगमणं ति॥२९३२॥ दापना-निर्यापनयोः को भेदः कः प्रतिविशेषः । अत्रोच्यते- दापना तदर्थस्य 'सी होज्न किंविसिट्ठो को वा जीवो नमो. कारो' इत्येवं पृच्छापृष्टस्य नमस्कारस्यार्थस्तदर्थो भण्यते, यथा 'नमोकारपरिणओ जो तो नमोक्कारो' इति । निर्यापना तु दापनादर्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युच्चारणं निगमनम् , यथा- स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति । एवं च निगमनीयम् । निगमनकृत एव च दापना-निर्यापनयोर्भेदः, न त्वात्यन्तिक इति भावनीयम् ।। २९३२ ।। अथवा, अन्यथाऽनयोर्भेदो दर्श्यते । कथमित्याहतेप्परिणय एव जहा जीवो अवहिओ वा तहा भुज्जो। तप्परिणओ स एव हि निज्जवणाएमओऽणन्नो ॥२९३३॥ अथवा, यथा दापनायां जीवो 'अवहिउ त्ति' जीवोऽवधृतो नियमितः, तद्यथा- तत्परिणत एव नमस्कारपरिणत एव जीवो नमस्कारो नान्य इति । 'तहा भुजो त्ति तथा तेनैव प्रकारण निर्यापनायां भूयोऽपि प्रकारान्तरतोऽवधार्यते । कथम् ? इत्याह'तप्परिणओ स एव हि त्ति' यथा दापनायां नमस्कारपरिणत एव जीवो नमस्कार इत्यवधृतम् , तथात्र निर्यापनायां तत्परिणतो 1 अथ दापना नमस्कारपरिणतो यः सको नमस्कारः । निर्यापनायां स एव यः स जीवो नमस्कारः ॥२९३१॥ ११५३॥ २ दापना-निर्यापनयोः को भेदो दापना तदर्थस्य । व्याख्यानं निर्यापना प्रत्यभ्यासो निगमनमिति ॥ २९३२ ॥ ३ गाथा २९३० । ४ गाथा २९३१ । ५ तत्परिणत एवं यथा जीवोऽवधृतो वा तथा भूयः । तत्परिणतः स एव हि निर्यापनायो मतोऽनन्यः ॥ २९३३ ॥ १४५ Jan Education Intemat For Personal and Price Use Only Nwww.jaintibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy