________________
हदतिः ।
विशेषा. ॥११५२॥
आरोयणा य भयणा पुच्छा तह दायणा य निजवणा । एसा व पंचविहा परूवणा रोवणा तत्थ ॥२९२७॥
आरोपणा च भजना, पृच्छा तथा दायना दर्शना दापना वा, निर्यापना वक्ष्यमाणरूपा, एषा वा प्ररूपणा पश्चविधा ज्ञेयेति ॥ २९२७॥
तत्रारोपणा का? इत्याह
किं जीवो होज नमो नमो व जीवोत्ति जंपरोप्परओ। अज्झारोवणमेसो पज्जणुजोगो मयारुवणा ॥२९२८॥
किं जीव एव भवेद् नमस्कारः, नमस्कार एव वा जीव इति यत् परस्परावधारणादध्यारोपणं पर्यनुयोजनमेष पर्यनुयोग आरोपणा मता संमतेति ॥ २९२८॥
भजनाव्याख्यानमाह
जीवो नमोऽनमो वा नमोउ निअमेण जीव इति भयणा। जह चूओ होइ दुमो दुमो उचूओऽचूओवा॥२९२९॥
जीवस्तावदनवधारित एव नमो नमस्कारो वा स्यात् सम्यग्दृष्टिः, अनमोऽनमस्कारो वा स्याद् मिथ्यादृष्टिः । नमो नमस्कारस्त्ववधारितो नियमेन जीव एव भवति, अजीवस्य नमस्कारासंभवात् । यथा चूतो द्रुम एव भवति, दुमस्तु चूतोऽचूतो वा खदिरादिः स्यादिति । एषैकपदव्यभिचाराद् भजनेति ॥ २९२९ ।।
पृच्छाखरूपमाह
तो जइ सव्वो जीवो न नमोक्कारो तो मया पुच्छा।सो होज्ज किंविसिट्ठो को वा जीवोनमोक्कारो? ॥२९३०॥
ततो यदि सर्वोऽपि जीवो न नमस्कारः, किं तर्हि ?, कश्चिदेव । ततः पृच्छा मता पृच्छामो भवतः- यो जीवो नमस्कारः स किंविशिष्टो भवेदिति कथ्यताम् , को वा जीवो नमस्कारः ? इत्यपि निवेद्यतामिति । एषा पृच्छति ॥ २९३०॥
१ आरोपणा च भजना पृच्छा तथा दापना च निर्यापना। एषा वा पञ्चविधा प्ररूपणा तत्र कर्तव्या ॥ २५२० ॥ २ किजीवो भवेद् नमो नमो वा जीव इति यत् परस्परतः । अध्यारोपणमेष पर्यनुयोगो मताऽऽरोपणा ॥ २९२८ ॥ ३ जीवो नमोऽनमो वा नमस्तु नियमेन जीव इति भजना । यथा चूतो भवति दुमो द्रुमस्तु चूतोउचूतो वा ॥ २९२९ ॥ ॥ ततो यदि सों जयो न नमस्कारस्ततो मता पृच्छा । स भवेत् किंविशिष्टः को वा जीवो नमस्कारः ॥ २९३०॥
॥११५२॥
हाबाद
Jan Eda
Internat
For Personal and Price Use Only
mwww.jaineibrary.org