________________
विशेषा• ॥११५१॥
जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते । शेषकास्तु तमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः । इदं च भागद्वार गाथायां भावद्वारात् पूर्वमुपन्यस्तमपि व्यत्ययेन निर्दिष्टम् , विचित्रत्वात् सूत्रगतेः । अल्प-बहुत्वद्वारमपि नेह विकृतम् । पीठिकायां मति- बृहद्वत्तिः । ज्ञानस्येव च भावनीयमिति ॥
सांप्रतं चशब्दाक्षिप्तां पञ्चविधादिप्ररूपणामनभिधाय वस्तुद्वारं तावदाह- 'वत्थुमित्यादि' वस्तु द्रव्यं दलिकं नमस्कारस्य योग्यमईमित्यनान्तरम् , तच्चेह नमस्काराहाः पश्चाईदादयो मन्तव्याः। तेषां च वस्तुत्वेन नमस्कारार्हत्वेऽयं वक्ष्यमाणलक्षणो हेतुः॥ इति नियुक्तिगाथासप्तकार्थः ॥ २९२४ ॥
इह 'एग पडुच्च हेट्ठा जहेब' इत्यादिना नमस्कारस्य कालद्वारं निरूपितम् । अथवा, अन्यथा तच्चिन्तनीयम् , कथम् ? इत्याही भाष्यकार:
अहवोसप्पु-सप्पिणिकालो नियओ य तविसिट्ठो य । तत्थथि नमोकारो नव त्ति नेयं जहा सुत्तं ॥२९२५॥ ___ अथवा, अत्रोत्सर्पिण्य-ऽवसर्पिणीलक्षणः कालो गृह्यते । स च भरतै-रवतेषु नियतः प्रतिनियतेन निजस्वरूपेण वर्तते, हैमवतहरिवर्ष-देवकुरू-तरकुरु-महाविदेह-रम्यकै-रण्यवतेषु पुनस्तद्विशिष्टः । तस्मादुत्सर्पिण्य-ऽवसर्पिणीकालाद् विशिष्टो विशेषितस्तत्प्रतिभागरूप एव कालोऽस्ति । तत्र द्विविधेऽपि काले नमस्कारोऽस्ति न वा? इति चिन्तायां यथा श्रुतं श्रुतसामायिक पूर्वमुक्तम् , तथाऽत्रापि ज्ञेयम् , नमस्कारस्यापि श्रुतविशेषरूपत्वादिति ॥ २९२५ ॥
इह च 'संतपयपरूवणया' इत्यादिनवद्वाराणां किश्चिद् व्याख्यातम्, किश्चिद् नेति, अतो भाष्यकारोऽतिदेशमाह
मैइ-सुयनाणं नवहा नंदीए जह परूवियं पुत्वं । तह चेव नमोक्कारो सो वि सुयब्भतरो जम्हा ॥२९२६॥ सुगमा ॥ २९२६॥ अथ चशब्दसूचितां पञ्चविधप्ररूपणामाह
११५१॥
१ गाथा २९२२ । २ अथवोत्सर्पिण्य-ऽवसर्पिर्णाकालो नियतश्च तद्विशिष्टश्च । तत्रास्ति नमस्कारो नवेति ज्ञेयं यथा सूत्रम् ॥ २९२५ ॥ ३ गाथा २९१८ ।
४ मत्ति-वतज्ञानं नवधा नन्द्यां यथा प्ररूपितं पूर्वम् । तथैव नमस्कारः सोऽपि सूत्राभ्यन्तरो यस्मात् ॥ २९२६ ॥
Jan Education Internal
For Personal and Price Use Only
diww.jainmibrary.org