________________
विशेषा ॥११५०॥
ESSABHARATRA
न्ति । इदं च द्वारत्रयमधिकृत्याह
पलियमसंखेज्जइमो पडिवन्नो होज्ज खित्त लोगस्स । सत्तसु चोदसभागेसु होज्ज फुसणा वि एमेव ॥२९२१॥
'पलियेत्यादि' इह सूचनात् सूत्रस्यायमर्थः- नमस्कारस्य प्रतिपत्तिमङ्गीकृत्य लोके कदाचिद् भवन्ति कदाचिद् नेति । यदि भवन्ति जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्तु सूक्ष्मक्षेत्रे पल्योपमासंख्येयभागप्रदेशशितुल्या इति । पूर्वप्रतिपन्नास्तु जघन्यतः मूक्ष्मक्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्त्वेभ्यो विशेषाधिका इति ॥ 'खेत्त त्ति' क्षेत्रद्वारमुच्यते-- तत्र नमस्कारवान् जीव ऊर्ध्वमनुत्तरसुरेषु गच्छल्लोकस्य सप्तसु चतुर्दशभागेषु भवति, अधस्तु षष्ठपृथिव्यां गच्छन् पञ्चसु चतुर्दशभागेषु भवतीति द्रष्टव्यम् । स्पर्शनाद्वारमप्येवं वक्तव्यम् । क्षेत्र-स्पर्शनयोस्तु प्रागुक्तो विशेष इति ।। २९२१ ॥
काला-ऽन्तर-भावलक्षणं द्वारत्रयमधिकृत्याहऐगं पडुच्च हेट्ठा जहेव नाणाजियाण सब्बडा । अंतरं पडुच्चमेगं जहन्नमंतोमुहत्तं तु ॥ २९२२ ॥
उक्कोसणंतकालं अवट्टपरियट्टगं च देसूणं । णाणाजीवे णत्थि ओ भावे य भवे खओवसमे ॥ २९२३ ॥
एक नमस्कारवन्तं जीवं 'हेटा जहेव त्ति' यथैवाधस्तादनन्तरमिहैव 'उवओग पडुच्चंतोमुहुत्तलद्धीए उ होइ जहन्ना' इत्यादिना काल उक्तस्तथेहापि वक्तव्यः । नानाजीवानां तु नमस्कारः सर्वाद्धा सर्वकालं भवति, लोके तस्य सर्वदाविच्छेदादिति । प्रतिपतितस्य पुनर्लाभेऽन्तरमप्येकं जीवं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तं भवति, उत्कृष्टतस्त्वुपार्धपुद्गलपरावर्तलक्षणोऽनन्तकाल इति । नानाजीवांस्तु प्रतीत्य नास्त्यन्तरम् , तदविच्छित्तेरेवेति । भावे तु क्षायोपशमिके नमस्कारो भवेदिति प्राचुर्यमङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकोपशमिकयोरप्येके वदन्ति, क्षायिके यथा श्रेणिकादीनाम् , औपशमिके श्रेण्यन्तर्गतानामिति ।। २९२२ ॥२९२३ ।।
भागद्वारमाहजीवाणणंतभागो पडिवन्नो सेसगा अणंतगणा । वत्थु तरहंताई पंच भवे तेसिमो हेऊ ॥ २९२४॥
१ पल्यासण्याततमः प्रतिपको भवेत् क्षेत्रं लोकस्य । सप्तसु चतुर्दशभागेषु भवेत् स्पर्शनाप्येवमेव ॥ २९२१ ॥ २ एकं प्रतीत्याधस्ताद् यथैव नानाजीवानां सादा । अन्तरं प्रतीत्यैकं जघन्यमन्तर्मुहूर्तमिति ॥ २९२२ ॥ उत्कृष्टमनन्तकालमपार्धपरिवर्तकं च देशोनम् । नानाजीवान् नास्ति तु भावे च भवेत् क्षयोपशमे ॥ २९२३ ॥ ३ गाथा २९१२ । जीवानामनन्तभाग प्रतिपक्षः शेषका अनन्तगुणाः । वस्तु तदहदादयः पञ्च भवेयुस्तेषामयं देतुः ।। २९२४ ॥
११५०॥
Jain Educationa.Intern
For Personal and Price Use Only