Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 158
________________ विशेषा ० ।।११५६॥ Jain Educator Internal pass रूपमपि मन्यन्त इति । एवं च स्थिते व्यञ्जननयस्य त्रिविधस्यापि शब्दनयस्य भङ्गकप्ररूपणामात्रेण प्रकृत्य-कार- नोकार तदुभययोगाच्चतूरूपोऽपि नमस्कारो भूत्वा परिशिष्टः सर्वोऽपि नमस्कारोऽनमस्कारश्चेति द्विरूप एवावशिष्यते प्रथम द्वितीयभङ्गवाच्य एवावतिष्ठते । तृतीय- चतुर्थभङ्ग तु तन्मतेन शून्यावेव तद्वाच्यस्य देशस्य प्रदेशस्य चाऽसत्वादिति । शेषाणां तु नैगमादिनयानां सर्वे चत्वारोऽपि भङ्गरूपा भेदाः सद्भूतार्था एव, तन्मतेन देशस्य प्रदेशस्य च सवादिति । तदेवमुक्ता चतुर्विधापि प्ररूपणा, तद्भणने च गतं सप्रसङ्गं प्ररूपणाद्वारम् || २९३९ ॥ अथ यदुक्तम्- 'वैत्थं तरहंताई पंच भवे तेसिमो हेऊ' इति, तदेतत् प्ररूपणायामसमर्थितायामन्तराले प्रागुपन्यस्तत्वात् सांन्यासिकं कृतमासीत् । तत्रेदानीं प्ररूपणायाः समर्थितत्वाद् यथावसरायातं वस्तुद्वारं विस्तरेण व्याचिख्यासुराह वेत्युं अरहा पुज्जा जोग्गा के जे नमोऽभिहाणस्स । संति गुणरासओ ते पंचारुहयाइजाइया ॥ २९४० ॥ वस्तु दलिकम्, अर्हाः पूज्या योग्या नमोऽभिधानस्य के ? इति पृष्ठे गुरुराह- ये नमोऽभिधानस्य योग्यास्ते पञ्च सन्तीति संवन्धः । किंविशिष्टास्ते ! गुणराशयो गुणसमूहाः । पुनः किमकाराः ? इत्याह- अईदादिजातीया अर्हदादिप्रकाराः - अर्हत्-सिद्धाऽऽचार्योपाध्याय-साधव इत्यर्थः । तदेवमत्र वस्त्वईदादयो गुणराशयः सन्ति इति गुण-गुणिनोरभेद उक्तः ॥ २९४० ॥ अथ तयोर्भेदोपचारादिदमाह - ओवयारओ वा वसन्ति नाणादओ गुणा जत्थ । तं वत्थुमसाहारणगुणालओ पञ्चजाईयं ॥ २९४१ ॥ सुबोधा, नवरं 'घटे रूपादयः' इत्यादिष्विव गुण-गुणिनोर्भेदोपचारादिहैवमुच्यते - वसन्ति ज्ञानादयो गुणा यत्र तत् पञ्चमकारं वस्त्वस्तीति ।। २९४१ ॥ अथ तानेव विशेषेणाह - * अरिहंता य सिद्धा-यरिओ वज्झाय- साहवो नेया । जे गुणमथभावाओ गुणा व्व पुज्जा गुणत्थीणं ॥ २९४२॥ १ गाथा २९२४ । २ वरस्वर्हन्तः पूज्या योग्याः के ये नमोऽभिधानस्य । सन्ति गुणराशयस्ते पञ्चाहंदादिजातीयाः ॥ २९४० ॥ ३ भेदोपचारतो वा वसन्ति ज्ञानादयो गुणा यत्र । तद् वस्त्वसाधारणगुणालयः पञ्चजातीयम् ॥ २९४१ ॥ ४ तेऽन्त सिखा-चाय-पाध्याय साधवो ज्ञेयाः । ये गुणमयभावाद् गुणा इव पूज्या गुणार्थिनाम् ॥ २९४२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ६ ॥११५६ ॥ www.janbrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202