Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 147
________________ विशेषा. बृहद्वात्तिः। ॥११४५॥ जीवम्मि अजीवम्मि व सम्मि परम्मि व विसेसणेऽभिन्नो । न य भेयमिच्छइ सया नमोसामन्नमेत्तस्स ॥२९०४॥ आधारस्य जीवादिविशेषणे कर्तव्ये सामान्यवादित्वाद् यस्मादभिन्नोऽभेदतत्परोऽसौ, तस्मादविशिष्टे आधारे नमस्कारं मन्यत इति । न चाधारादिभेदेन नमस्कारसामान्यमात्रस्यापि सदा भेदमिच्छत्यसौ, किन्त्वभेदमेवेच्छति, सामान्यवादित्वादेवेति ।। २९०४॥ ___ अथवा, अन्योऽन्यत्र वर्तत इति व्यधिकरणं संग्रहो मूलत एव नेच्छति, इच्छति वा कोऽप्यशुद्धतरो नमस्कारं जीव एव, नाजीवे, इत्येतद् दर्शयन्नाह जीवो नमो त्ति तुल्लाहिगरणयं बेइ न उ स जीवम्मि । इच्छइ वाऽसुद्धयरो तं जीवे चेव नन्नम्मि ॥२९०५॥ गतार्था । २९०५॥ अथ ऋजुमूत्रनयमतेनाधारचिन्तामाह उज्जुसुयमयं नाणं सहो किरिया च जं नमोकारो । होज न हि सव्वहा सो मओ तदत्थंतरब्भुओ॥२९०६॥ पागुक्तार्था, नवरं न खलु सर्वथासौ नमस्कारस्तस्मात् कर्तुरन्तरभूतो मतः, किन्तु कर्तर्येवाधारे नमस्कार इति भावः ॥२९०६॥ एतदेव समर्थयति संगुणिम्मि नमोकारो तग्गुणओ नीलया व पत्तम्मि । इहरा गुणसंकरओ सव्वेगत्तादओ दोसा ॥२९०७॥ खस्यात्मनो गुणी स्वगुणी तस्मिन् स्वगुणिनि कर्तरि नमस्कारः, नान्यत्रेति प्रतिज्ञा । तद्गुणत्वादिति हेतुः । पत्रे नीलतावदिति | दृष्टान्तः । विपर्यये बाधकमाह- इतरथा- अन्यगुणस्यान्यत्र गमने, गुणानां परस्परं सांकर्यात् , गुणिनां सर्वेषामपि सांक-कत्वादयो | दोषा भवेयुरिति ।। २९०७ ॥ BOHOLOR जीवेऽजीवे वा स्वस्मिन् परस्मिन् वा विशेषणेऽभिन्नः। न च भेदमिच्छति सदा नमःसामान्यमात्रस्य ॥ २९०४ ॥ २ जीबो नम इति तुल्याधिकरणता प्रवीति न तु स जीवे । इच्छति वाऽशुद्धतरस्तं जीव एवं नान्यस्मिन् ॥ २९०५ मसूत्रमतं ज्ञानं शब्दः क्रिया च यद् नमस्कारः । भवेद् न हि सर्वथा स मतस्तदर्थान्तरभूतः ॥ २९०॥ खगुणिनि नमस्कारस्तद्गुणतो नलितेव पत्रे । इतरथा गुणसंकरतः सवैकत्वादयो दोषाः ॥ २९ ॥ ॥११४५॥ RESTRIESTABLE For Posol s en

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202