Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 151
________________ बृहदत्तिः । विशेषा. ॥११४९॥ करनाala इत्यादिकम् , 'तच्चकहणं ति' तत्त्वकथनं स्वरूपनिवेदनं युक्तं भवति । क्रियतां तद्देवम् , कथ्यतामत्र पदार्थ इति चेत् । अत्राह'तह वीत्यादि' यद्यप्यत्र पदार्थे कथिते सति तत्र स्वरूपकथनं युज्यते, तथापि नेह पदार्थः कथ्यते किन्तु ग्रन्थलाघवार्थ तत्रैव वस्तु- द्वारे पदार्थ वक्ष्यतीति; अन्यथा ह्यत्राहदादिपदानामर्थः, तत्र त्वहंदादीनां स्वरूपकथनमिति ग्रन्थगौरवमेव स्यात् । इति गाथापञ्चकार्थः॥ तदेवमुक्ता पविधप्ररूपणा ॥ २९१७॥ अथ नवविधां तामभिधित्सुराह-- 'संतपयपरूवणया दव्वपमाणं च खेत्त फुसणा य । कालो य अंतरं भाग-भाव-अप्पाबहं चेव ॥२९१८॥ इति द्वारगाथा । एतैः सत्पदमरूपणतादिभिर्नवभिरैनमस्कारस्य नवविधेयं प्ररूपणा मोच्यते ॥ २९१८ ।। तत्र प्रथमद्वारमधिकृत्याहसंतपयं पडिवन्ने पडिवते य मग्गणा गईसु । इंदिय काए जोए वेए य कसाय-लेसासु ॥ २९१९ ॥ सम्मत्त-नाण-दसण-संजय-उवओगओय आहारे।भासग-परित्त-पज्जत्त-सुहुम-सण्णीय भवचरिमे ॥२९२०॥ सच्च तत्पदं च सत्पदं विद्यमानार्थ पदमित्यर्थः । तच्चेह नमस्कारलक्षणम् । तस्य नमस्कारलक्षणस्य सत्पदस्य पूर्वप्रतिपन्नान् प्रतिपद्यमानकांचाश्रित्य 'मग्गण ति' मार्गणाऽन्वेषणा कर्तव्या । कासु। चतसृष्वपि गतिषुः तद्यथा-नमस्कारः किमस्ति नवा। अस्तीति ब्रूमः । तत्र चतुष्पकारायामपि गतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या:कदाचिद् भवन्ति, कदाचिद् नेति । एवमिन्द्रियादिष्वपि चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदमरूपणता कृता तथा नमस्कारस्यापि कर्तव्या, तयोरभिन्नवामित्वेनैकवक्तव्यत्वादिति ॥ तदेवं गतं सत्पदमरूपणताद्वारम् ॥ २९१९ ॥ २९२०॥ अथ द्रव्यप्रमाणद्वारमुच्यते । तत्र नमस्कारवज्जीवद्रव्यप्रमाणं वक्तव्यम्- एकस्मिन् समये कियन्तो नमस्कारं प्रतिपद्यन्ते, सर्वे वा कियन्त इति । क्षेत्रमिति क्षेत्रं वक्तव्यम्-कियति क्षेत्रे नमस्कारः संभवति । स्पर्शना च वक्तव्या-कियद्धवं नमस्कारवन्तः स्पृश , सत्पदनरूपणता द्रव्यप्रमाणं च क्षेत्र स्पर्शना च । कालश्चान्तरं भाग-भावा-उप-बहुत्वानि चापि ॥ २९१८ ॥ २ सत्पदं प्रतिपन्नान् प्रतिपचमानांश्च मार्गणा गतिः । इन्द्रिये काये योगे वेदे च कपाय-लेश्यासु ॥ २९१९ ॥ सम्यक्त्व-ज्ञान-दर्शन-संयतो-पयोगेषु चाहारे । भाषक-परीत-पर्याप्त-सूक्ष्मसंशिषु च भव-घरमयोः ॥ २९२०॥ ॥११४९॥ g asenile

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202