SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥११४२॥ पूजकजीवस्य ते तमिच्छन्ति ॥ इति त्रिंशद्दाथार्थः ॥ गतं 'कस्य' इति प्ररूपणाद्वारम् ॥ २८९२ ॥ ___ अथ 'केन' इति द्वारमाह बृहद्वत्तिः । नाणावरणिज्जस्स य दसणमोहस्स जो खओवसमो। जीवमजीवे अठ्ठसु भंगेसु य होइ सव्वत्थ ॥२८९३॥ 'ज्ञानावरणीयस्य' इत्यनेन मति-श्रुतज्ञानावरणद्वयं गृह्यते, नमस्कारस्य मति श्रुतज्ञानान्तर्गतत्वात् । ज्ञानस्य च सम्यक्त्वसहचरितत्वाद् दर्शनमोहनीयमप्याक्षिप्यते । ततो मति-श्रुतज्ञानावरणद्वयस्य दर्शनमोहनीयस्य च कर्मणो यः क्षयोपशमः 'तेन हेतुभूतेन नमस्कारो लभ्यते' इत्यध्याहारः । तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति- सर्वोपघातीनि, देशोपघातीनि च । तत्र सर्वेषु सवेघातिषु हतेषु देशोपघातिनां च प्रतिसमयमनन्तै गैर्विमुच्यमानः क्रमेण नमस्कारस्य प्रथमं नमस्कारलक्षणमक्षरं लभते । एवमैकैकवर्णमाप्त्या समस्तनमस्कारं प्रामोतीति । गतं 'केन' इति द्वारम् ॥ अथ 'कस्मिन्' इति द्वारमभिधित्सुराह- 'जीवमजीवे इत्यादि' मकारोऽलाक्षणिकः । नमस्कारस्य जीवगुणत्वाज्जीवः, ततो नमस्कारवान् जीवो यदा गजेन्द्रादौ जीवेऽधिकरणे वर्तते तदा जीवे नमस्कारोऽभिधीयते, यदा तु कटाद्यजीवे तदाऽजीवेऽसौ व्यपदिश्यते । यदा तु जीवा-जीवोभयात्मके वस्तुनि तदा जीवा-5जीवयोः। इत्येक-बहुवचनाभ्यां प्रागुक्तेष्वष्टसु भङ्गेषु सर्वत्रायं भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २८९३ ॥ विस्तरार्थ त्वभिधित्सुर्भाष्यकारः प्राहकेणं ति नमोक्कारोसाहिज्जइ लब्भए व भणियम्मि । कम्मक्खओवसमओ किं कम्म को खओवसमो? ॥२८९४॥ केन हेतुना नमस्कारः साध्यते, लभ्यते वा ? इति भणिते गुरुराह- कर्मक्षयोपशमतोऽसौ लभ्यते । विनेयः प्राह- किं तत् कश्च क्षयोपशमः ? इति ॥ २८९४ ॥ ___ तत्र कर्म तावदाहज्ञानावरणीयस्य च दर्शनमोहस्य यः क्षयोपशमः । जीवेऽजीवेऽष्टसु भनेषु च भवति सर्वत्र ॥ २८९३ ॥ E0११४२॥ २ केनेति नमस्कारः साध्यते लभ्यते वा भणिते । कर्मक्षयोपशमतः किं कर्म कः क्षयोपामः ॥ २८९४ ॥
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy