________________
विशेषा०
॥११४३॥
Jain Educationa Interna
इ-नाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहाई सव्व देसोवधाईणि ॥ २८९५ ॥ सव्वेषु सव्वधाइसु हसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणतेहिं ॥ २८९६ ॥ पढमं लहइ नकारं एक्केक्कं वन्नमेवमन्नं पि । कमसो विसुज्झमाणो लहइ समत्तं नमोक्कारं ॥ २८९७॥ तिस्रोऽपि गतार्थाः, नवरं मतिज्ञानावरणादिस्पर्धकानि तीव्र - मन्द-मध्यमादि भेदभिन्नरसविशेषरूपाणि स्थानान्तरादव सेयानीति ।। २८९५ ।। २८९६ ।। २८९७ ।।
यदुक्तम्- 'कश्च क्षयोपशमः ?' इति, तत्राह
खीणमुइन्नं सेसयमुवसंतं भण्णइ खओवसमो । उदय-विघाय उवसमां जा समुइन्नरस य विसुद्धी || २८९८ ॥ पूर्वार्धमेवोत्तरार्धेन व्याचष्टे - अनुदितस्योदयविघात उपशमः, समुदीर्णस्योदितस्य पुनर्या विशुद्धिः क्षपणं स 'क्षयः' इति शेषः, क्षयेणोपलक्षित उपशमः क्षयोपशम इति समासः ।। २८९८ ।।
अथ मति श्रुतावरणद्वयस्य दर्शनमोहनीयस्य च क्षयोपशम इह किमिति गृह्यते ? इत्याह
सो सुयनाणं मइमणुगयं च तं जं च सम्मदिडिस्स । तो तल्लाभे जुगवं मइ-सुय-सम्मत्तलाभो त्ति ॥२८९९॥
स नमस्कारस्तावत् स्वयं श्रुतज्ञानम्, तच्च श्रुतज्ञानं 'मैइपुब्वं जेण सुयं' इत्यादिवचनाद् मत्यनुगतं मतिपूर्वमेव भवति । एते च मति श्रुते यस्मात् सम्यग्दृष्टरेव भवतः । ततस्तल्लाभे नमस्कारलाभे युगपत् समकालं मति श्रुत-सम्यक्त्वानां लाभो भवतीति । अतो मति श्रुतज्ञानावरणीयद्वयस्य, दर्शनमोहनीयस्य च क्षयोपशमोऽत्र गृह्यत इति । तदेवं व्याख्यातं 'केन' इति द्वारम् ॥ २८९९ ।। अथ 'कस्मिन्' इति द्वारं व्याचिख्यासुराह
१ मति-श्रुतज्ञानावरणे दर्शनमोहश्च तदुपघातीनि । तत्स्पर्धकानि द्विविधानि सर्व देशोपघातीनि ॥ २८९५ ॥ सर्वेषु सर्वघातिषु हतेषु देशोपघातिकानां च भागमुच्यमानः समये समयेऽनन्तैः ॥ २८९६ ॥ प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् ॥ २८९७ ॥
२ क्षीणमुदीर्ण शेषकमुपशान्तं भण्यते क्षयोपशमः । उदयविधात उपशमो या समुदीर्णस्य च विशुद्धिः ॥ २८९८ ॥ ३ स श्रुतज्ञानं मत्यनुगतं च तद् यच्च सम्यग्द्दष्ठेः । ततस्तल्लाभे युगपद् मति श्रुत-सम्यक्त्वलाभ इति ॥ २८९९ ॥
For Personal and Private Use Only
४ मतिपूर्व येन श्रुतम् ।
बृहद्वत्तिः ।
॥। ११४३ ॥
www.jainelibrary.org